SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुचय भाग - १, श्लोक - १४, १५, १६, नैयायिक दर्शन १४५ तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ।।१४।। दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयौ । वादोजल्पो वितण्डाचहेत्वाभासाश्छलानि च ।।१५।। जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तचतुर्विधम् ।।१६।। त्रिभिर्विशेषकं । ___eोअर्थ : मा नैयायिमतमा प्रभाu१७ तत्वो छ.तसा प्रभारी छ.(१) प्रभाए।, (२) प्रमेय, (3) संशय, (४) प्रयो४न, (५) दृष्टांत, (७) सिद्धांत, (७) अवयव, (८) त६, (C) निय, (१०) वाह, (११) ४८५, (१२) वितं31, (१३) उत्पामास, (१४) ७८१, (१५) ति, (૧૬) નિગ્રહસ્થાન. આ ૧૬ તત્ત્વોની પ્રરૂપણા આ પ્રમાણે કરવામાં આવી છે. -પદાર્થની ઉપલબ્ધિમાં જે હેત બને છે તે પ્રમાણ કહેવાય છે. તે પ્રમાણ ચારપ્રકારનું છે. (આ ત્રણ શ્લોકનો એક સાથે અન્વય હોવાથી તેને વિશેષક કહેવાય છે.) व्याख्या-अमुत्रास्मिन्प्रक्रान्ते नैयायिकमते प्रमाणादीनि प्रमाणप्रमेयप्रभृतीनि षोडश तत्त्वानि भवन्ति । तद्यथेत्युपदर्शने । “प्रमाणंच" इत्यादि । तत्र प्रमितिरूपलब्धिर्ज्ञानं येन जन्यते, तज्ज्ञानस्य जनकं कारणं प्रमाणम् । प्रमीयते ज्ञानं जन्यतेऽनेनेति प्रमाणमिति व्युत्पत्तेः । ज्ञानस्य च जनकं द्विविधम् । अचेतनं ज्ञानं च । तत्राचेतनमिन्दियतदर्थसन्निकर्षप्रदीपलिङ्गशब्दादिकं ज्ञानस्य कारणत्वात्प्रमाणं, ज्ञानं च-ज्ञानान्तरजन्मनि यद्व्याप्रियते तदपि ज्ञानजनकत्वात्प्रमाणम् । ज्ञानस्याजनकं तु प्रमाणस्य फलं भवेन्न पुनः प्रमाणम् १ । प्रमेयं प्रमाणजन्यज्ञानेन ग्राह्य वस्तु २ । दोलायमाना प्रतीतिः संशयः । चकारास्त्रयोऽपि प्रमाणादीनामन्योन्यापेक्षया समुश्चयार्थाः ३ । प्रयोजनमभीष्टं साधनीयं फलम् ४ । दृष्टान्तो वादिप्रतिवादिसंमतं निदर्शनम् ५ । अपिः समुचये । अथशब्द आनन्तर्ये । सिद्धान्तः सर्वदर्शनसंमतशास्त्रप्रभृतिः ६ । अवयवाः पक्षादयोऽनुमानस्याङ्गानि ७ । संदेहादूर्ध्वमन्वयधर्मचिन्तनं तर्कः, स्थाणुरत्राधुना संभवतीति ८ । स्थाणुरेवायमित्यवधारणं निर्णयः । द्वन्द्वे तर्कनिर्णयौ ९ । गुरुणा समं तत्त्वनिर्णयार्थं वदनं वादः १० । परेण समं जिगीषया जल्पनं जल्पः ११ । अपरामृष्टवस्तुतत्त्वं मौखर्यमानं वितण्डा १२ । हेतुवदाभासमाना हेत्वाभासा न सम्यग्घेतव इत्यर्थः १३ । परवचनविधातार्थविकल्पोत्पादनानि छलानि १४ । जातयोऽसम्यग्दुषणानि १५ । यैरुक्तैर्वक्ता निगृह्यते तानि निग्रहस्थानानि १६ । इति । एषामनन्तरोक्तानां प्रमाणादीनामेवमित्थं प्ररूपणा स्वरूपप्रदर्शना भवति । तत्रादौ प्रमाणस्य प्ररूपणां चिकीर्षुः प्रथमतस्तस्य सामान्यलक्षणं संख्यां च प्राह
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy