SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७४ जनतर्कभाषा । पलभ्येत एवेत्यर्थः । सुखानुभवादिविषयकविज्ञानलक्षणात्स्वमज्ञानादुत्पद्यमाना हर्षविषादादयो नापलपितुं शक्याः, जाग्रदशायामपि केषाश्चिद्वस्तुत इष्टविषयस्याभावेऽपि स्वोत्प्रेक्षितसुखानुभवादिविषयज्ञानाद्धर्षस्य, द्विष्टविषयस्याभावेऽपि च स्वोत्प्रक्षितद्वेषविषयानुभवविज्ञानाद् दुःखस्य भावादिति स्वमविज्ञानकृतावनुग्रहोपघातौ स्यातां नाम । भोजनादिक्रियाफलं तु तृप्त्यादिकं स्वमविज्ञानान्न भवत्येव, स्वप्ने सम्यगोदनमोदकादिभोजनादिकमात्मीयमनुभूय . विबुद्धस्य भोजनफलप्त्यादिलक्षणानुग्रहादेरदर्शनात् , स्वप्नविज्ञानात्तद्भावे तु कल्पेतापि मनसःप्राप्तिकारिता चैवमिति समाधत्ते । पृ. ४. पं. २३ दृश्येतां स्वप्नविज्ञानकृतौ तौ-अनुग्रहोपघातौ । पृ. ४. पं. २४ स्वप्नेति-क्रियाफलं तु तृप्त्यादिकं स्वप्नविज्ञानकृतं नास्तीत्यन्वयः, क्रियाफलं स्वमोपलभ्यमानभोजनादिक्रियाफलं, आदिपदाच्छ एकतस्वशिरःकृन्तनादेरुपग्रहः. तृप्तीत्यनेनानुग्रहस्य कथनम, आदिपदाच्छिरोधरादितः शोणितादिनिस्यन्दनलक्षणोपघातस्य परिग्रहः । ननु जाग्रति केलिगृहादावेकान्तगृहे रूपयौवनलावण्यसम्भृतया कामिन्या निधुवनक्रीडां कुर्वाणस्य कामिनव्यञ्जनविसर्गः प्राप्तकामिनीसम्पर्कादेव भवति, नान्यथेति । यत्र शुक्रविसर्गस्तत्रावश्यं कामिनीसम्पर्क इति व्याप्तिरवधियते, स्वप्ने च जाग्रदवस्थानुभूतकामिनी तत्समानगुणामन्यां वा कामिनी निधुवनक्रीडाकलितामतिदृढालिङ्गननिपीडितकुचतटामनुभवतो यूनो यच्छुक्रस्खलनम्भवति तत्रान्तरेण कामिनीसम्पर्केणेति तत्प्राप्तिरवश्यमेवेति कथन प्राप्यकारित्वम्मनसः ? क्रियाफलस्य शुक्रविसर्गस्य स्वमव्यपगमानन्तरमप्युपलम्भादित्याशङ्कते । पृ. ४. पं. २५ क्रियाफलमपीति-क्रियाफलम्-कामिनीनिधुवनक्रियाकार्यम् , जाग्रद्दशायामपि प्रबलवेदोदयात्तीव्रमोहस्य निरन्तरकामिनीध्यानपावल्यात्प्रत्यक्षामिव कामिनीं पश्यतो दुष्टाध्यवसायसमुत्थकल्पनाजालेनासतीमपि सतीमिव तां परिष्वजतोऽपरिभुक्तामपि परिभुक्तां मन्यमानस्य पुंसस्तीव्राध्यव. सायादेव कामिनीसम्पर्कमन्तरेणापि व्यञ्जनविसर्गो यथा जायते तथा स्वप्नेऽपि कामिनीसम्पर्क विनैव तथाविधाध्यवसायत एव रेतोविसर्गः, यत्र रेतोविसर्गस्तत्र कामिनीसम्पर्क इत्यत्रोक्तदिशा व्यभिचारस्य स्फुटमुपलब्धेः, स्वप्ने रेतोविसर्गसमनन्तरमेव प्रबुद्धेन पुंसा सम्यगवलोकमानेनापि कामिन्या अनवलोकनेन
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy