SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७१ जैनतर्कभाषा । पृ. ४० पं. ७ अपरे तु ... देवजीवमप्रादुर्भूतम्-वर्तमानकालेऽप्रकटी भूतमर्थाद्धविषयत्काले भावितं, उत्तरकालभाविनो देवजीवस्य मनुष्यजीवः कारणमिति कृत्वा मनुष्यजीवो द्रव्यजीवः इत्येतदेव तयोः कार्यकारणसमर्थनेनोपपादयति । पृ. ४० पं. ९ अहं हि इत्यादिना-अहमित्यनेनैतत्स्वरूपसमर्थनपरा आचायोः स्वस्याविशिष्टसाध्याचारसेवनपरायणत्वतोऽवश्यमुत्तरकालभाविदेवभवं निर्विचिकित्समवधारयन्त आत्मानमेव परामशन्ति । आस्तां दृष्टान्तान्तरगवेषणा मामेव तावद्रव्यजीवं जानन्तु भवन्त इति नाव्यापिता निःक्षेपचतुष्टयस्य अन्यद्वयक्तम् । पृ. ४० पं. ११ एतदिति-पूर्वः पूर्व इत्यादिनाऽन्तरमेवोपवर्ण्यमानम् । पृ. ४० पं. ११ तैः-मनुष्यजीवस्य द्रव्यजीवत्वमुपगच्छद्भिराचार्यैः परस्य परस्योत्पित्सोरित्यन्तरं जीवस्येति दृश्यम् । पृ. ४० पं. १२ अस्मिंश्च पक्षे-अनन्तराभिहिताचार्यमते च, सिद्धजीव एवेति सिद्धजीवभवनान्तरं पुनरपरजीवभावेन भवनाभावात्कस्यचिदपि विशिष्ट जोवस्य कारणत्वाभावात्सिद्धजीवस्य द्रव्यजीवत्वं न सम्भवतीति स एव भावजीवः मनुष्यादिजीवस्य तु यावन्न सिद्धिस्तावदवश्यमुत्तरकाले विशिष्टजीवभावेन भवनमिति कारणत्वाद् द्रव्यजीवत्वमित्येवकारलभ्यमेव स्पष्टयति । पृ. ४० पं. १३ नान्य इति-सिद्धभिन्नजीवो न भावजीव इत्यर्थः । पृ. ४० पं. १३ इति-एतस्मात्कारणात् , एतदपि अनन्तरोपदर्शिताचार्यमतमपि । पृ. ४० पं. १४ नानवद्यमिति-न निर्दुष्टमिन्यर्थः सिद्धान्यजीवे भावजीव इति निःक्षेपस्याघटनात् सिद्धे द्रव्यजीव इति निःक्षेपस्याघटनात्तन्निबंधनाव्यापितादोषसद्भावात् खयमुक्ताचार्यमते मनुष्यजीवादी विशिष्टजीवे द्रव्यजीव इति द्रव्यनिःक्षेपस्य सम्भवेऽपि विशेषणानुरक्ते जीवे द्रव्यजीव इत्येवं द्रव्यनिःक्षेपो
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy