________________
२७०
बैनतर्कभाषा पद्न्यमिति द्रव्यलक्षणस्य तदानीममावादपि द्रव्यत्वं तदानीं न स्यादतो गुणपर्यायवियुक्तत्वं नास्त्येव द्रव्यस्येत्यत् आह ।
पृ. ३९ पं. २८ बुद्धया कल्पित इति-शास्त्रे गुणपर्यायवद् द्रव्यमित्यनेन गुणपर्याययोधर्मतया द्रव्यस्य धर्मितयोपादानादत्र धर्मधार्मभावस्य दण्डी-पुरुष इत्यादौ दण्डमन्तरेणापि पुरुषस्य पुरुषमन्तरेणापि दण्डस्य सद्भावेऽपि दर्शनेन प्रथग्भावो यथा तत्र तथाऽत्राप्येवम् स्यात् बुद्धया कल्पितः । ननु तत्र पुरुषस्य तत्रासाधारणस्वभावपुरुषत्वमस्तीति दण्डवियुक्तेऽपि पुरुषस्संभवति जीवस्य तु ज्ञानादिवियुक्तत्वे इदृशस्वभाव एव नोपलभ्यते इति कथं बुद्धयाऽपि गुणपर्यायवियुक्तत्वेन स्थापितः स स्यादित्यत आह ।
पृ. ३९ पं. २८ अनादि पारिणामिकभावयुक्तो-अनादिपारिणामिको यो जीवत्वादिलक्षणो भावस्तेन युक्त इत्यर्थः, सादेर्भावस्य पर्यायत्वेन तयुक्तस्य बुद्धया पर्यायवियुक्तत्वकल्पना न सम्भवतीत्यतोऽनादीति ।
__ पृ. ३९ पं. २९ शून्योऽयंमिति-तत्वार्थाधिगमे अथवा शुन्योऽयं भङ्गः इत्येवमुल्लेखादेकस्मिन्पक्षे उक्तदिशा द्रव्यजीवः सम्भवति, पक्षान्तरे न सम्भवतीत्यर्थों लम्यते, ग्रन्थकारेण तु अथवेति पक्षान्तरसूचकं वचनमनुपादायैव इति यावदितन्ते वचनमुपादाय यत्तदेवोक्तं, तेनेदं ज्ञापित विभिन्नपक्षतयाऽक्वोधनस्थले आदावन्ते वा इति केचदित्यन्ये आचार्या इत्यायन्यतमवचनमवश्यमेव भवति, तादशवचनाभावान कल्पान्तरमिति प्रथमस्य प्रपञ्चनम् । अथवेत्युक्तिश्च पतिपाद्य बुद्धीवैशद्यायेत्थं प्रथममभिहितं न तु तथा सम्भवतीति बोध्यम् । कथं द्रव्यजीव उक्तदिशा प्रतिपादितोऽपि शुन्यः । शुन्यत्वं सम्भवदर्थकत्वे सत्वेन वचनात्मकभङ्गस्य घटते नान्यथेत्यतोऽसम्भवदर्थकत्वं दर्शयति ।
पृ.३९ पं. २९ सतामिति-जीवद्रव्ये सर्वदैव विद्यमानानामित्यर्थः । यदि यथाज्ञानम्भवति तथैव वस्तुसन्नर्थी भवेत् तदा सम्भाव्येताऽपि गुणपर्यायवियुक्तस्वेन जीवस्य बुद्धिस्तथाविधो जीवः, न चैवं किन्तु येन रूपेणार्था भवन्ति तेन तेन