________________
जैनतर्कभाषा |
१६८
स्थापना सामान्यं सङ्ग्रह इच्छति स्थापनाविशेषस्तु व्यवहार इत्येतदेव युक्तम् तदनिच्छा तु सर्वथाऽनयोर्न युक्तेति ॥
॥ इति नयनिःक्षेप संयोजना ||
॥ अथ जीवविषये निःक्षेपानुगमनम् ॥
नामस्थापनाद्रव्यभावनिःक्षेपानां वस्तुमात्रगतत्वं समर्थयिष्यन् ग्रन्थकारो द्रव्यनिःक्षेप भिन्नानां त्रयाणां निःक्षेपानां जीवे सम्भवेऽपि द्रव्यनिःक्षेपस्य न तत्र सम्भव इति कथं निःक्षेपचनुष्टयस्य वस्तुत्वव्यापकत्वमिति तावदादावाह ।
पृ. ३९ पं. २१ तत्र यद्यपि यस्य... इत्यादिना - तत्र निःक्षेपचतुष्टये जीवस्य चेतनावतः अजीवस्य चेतनारहितस्य स चेतनावान् अचेतनो वा, देवतादीत्यादिपदान्मनुष्यादेरुपग्रहः अत्र देवतादिपदेन देवतादिशरीरगतजीवस्य ग्रहणं अन्यथा देवतादिशरीरस्य जीवसम्भिन्नत्वमाश्रित्य तत्प्रतिमायां स्थापनाजीवत्वे तच्छरीरकारणस्य द्रव्यजीवत्वमपि स्यादिति द्रव्यजीवासम्भवप्रतिपादन मसङ्गतं स्यात्, अत एव तच्चार्थे यः काष्ठ - पुस्तक - चित्रकर्मा - क्षनिःक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीव देवतादिप्रतिकृतिवत् इन्द्रो रुद्रः स्कन्दो विष्णुरिति असभूतस्थापनैव जीवस्य दर्शिता देवतादिप्रतिकृतिवदिति तु यथादेवतादिप्रतिकृतिदेवतादिस्थापना तथेत्यर्थकं देवतादिप्रतिमाया एव स्थापनाजीवत्वे तस्य दाटन्तिकत्वतो दृष्टान्तता न स्यादिति बोध्यम् । औपशमिकादीत्वादिपदात् क्षायिकक्षायोपशमिकोदायिक-- पारिणामिकानां ग्रहणम् द्रव्यनिःक्षेपस्य जीवविषये कथं न सम्भव इत्यापेक्षायामाह ।
1
पू. ३९ पं. २१ अयं हि - द्रव्यजीव इत्याकारकः प्रकृते द्रव्यनिःक्षेप इत्यर्थः । हि यतः ।
पृ. ३९ पं. २१ अजीवः सन्- पूर्वकाले उपयोगलक्षणचेतनारहितः सन् ।
पू. ३९ पं. २५ आयत्या - आगामिकाले ।