SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः पृ. ३८ पं. २६ पत्युत-अपिवित्यर्थः । पृ. ३८ पं. २६ सुतराम्-अवश्यमेव । पृ. ३८ पं. २६ तदभ्युपगमः-ऋजुसूत्रनये नामाभ्युपगमवत्स्थापनाम्युपनाभ्युपगमोऽपि । पृ. ३९ पं. १ न्याय्यः-न्यायादनपेतः नामइन्द्रपर्यायस्वरूपभावे वाच्यवाचकभावलक्षणसम्बन्धेनावस्थितं, द्रव्यस्थापने तु तत्र तादात्म्यसम्बन्धेनावस्थिते इति भावोल्लासे नामापेक्षया सनिहिततरकारणत्वाद्यदि भावोल्लासे विकष्टकारणस्यापि नाम्नोऽभ्युपगमः किमिति सन्निहिततरकारणयोन्यस्थापनयोरभ्युपगमो न भवेदपि तु भवेदित्येव न्यायादनपेततां न्यायप्राप्तत्वं स्पष्टमाचष्टे । पृ. ३९ पं. १ इन्द्रमूर्तिलक्षणेति-पूर्वापरपर्यायानुगामित्वादिन्द्रस्य सहस्राक्षाद्यवयवावगुण्ठितविग्रह इन्द्रमूर्तिलक्षणद्रव्यं तस्यैव विशिष्टो विलक्षणो यथावदानुपूर्ध्याकलितावस्थानाकलितः तदाकारः इन्द्रशरीस्कारोऽवयवसनिवेशस्तदूपा स्थापना तयोरित्यर्थः । पृ. ३९ पं. २ तत्र-इन्द्रपर्यायरूपमावे, किश्चेत्यादिना यदत्र अजुनद्रव्य. स्थापनाम्युपगमप्रत्यलयुक्त्युपदर्शनं तदित्थं विशेषावश्यके "उपपस्यन्तरेणापि द्रव्यस्थापनेच्छामस्य साधयन्नाह -ननु ऋजुसूत्रस्तावद् नाम निर्विवाद मिच्छति, तच्च नाम इन्द्रादिसज्ञामानं वा भवेत् इन्द्राद्यर्थरहितं मोपालदारकादि वस्तु भवेदिति द्वयी गतिः, इदश्चोभयरूपमपि नाम भावकारणमिति कृत्वा इच्छन्नसावजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत, भाषकारणत्वाविशेषादिति भावः । अर्थेन्द्रादिकनाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति तस्मादिच्छति तद् ऋजुत्रा, तर्हि जितमस्माभिः, तस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् , तथाहि द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्यासमतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति एतदुक्तं भवति इन्द्रमूर्तिलक्षणं द्रव्य, विशिष्टतदाका. ररूपा तु स्थापना एत द्वे अपि इन्द्रपर्यायस्य तादाम्येनावस्थितत्वात्सविहिततरे
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy