________________
बनतर्षमावा । पर्यायेऽन्तर्भावः । इत्येवं विशेषा बहवस्सन्ति तथापि अन्यान् विशेषान् ग्रन्थगौरवमयादुपेक्ष्य ऋजुसूत्रस्य द्रव्यार्थिकत्वमननं यत्पूज्यपादानां तदेवोपदर्शयति ।
पृ. ३० पं. १३ ऋजुसूत्र इति-द्रव्यार्थिकस्य प्रथमोद्दिष्टत्वात्प्रथमं विभ. जनाश्च तस्यायं प्रकार नैगमं लक्षयति ।
पृ.३० ६.१५ तत्रेति-नैगमसङग्रहव्यवहारेषु द्रव्याथिक मेदेषु मध्य इत्यर्थः, सामान्य विशेषाद्यनेकधर्मोपनयनपरोध्यवसाय इति लक्षणं नैगम इति लक्ष्यम् , द्रव्यमनुगतत्वात्सामान्यं, सहभावीपर्यायो गुणः क्रमभावीपर्यायश्च तावुभौ व्यावृ. तत्वाद्विशेषः, आदिपदान्नित्यत्वानित्यत्वभेदाभेदादेर्ग्रहणं तथाविधानामनेकधर्माणां धर्मिण्युपनयने परः प्रवणः अध्यवसायोऽभिप्रायः नैगमनय इत्यर्थः । अमुमेवार्थ स्पष्टयति ।
पृ. ३० पं. १६ यथेति-पर्याययोरेकपर्यायस्य मुख्यरूपतयाऽपरपर्यास्यामुख्यरूपतया (गौणतया) विवक्षणपरः प्रतिपादनसमर्थः, एको नैगमः, द्रव्ययोरेकद्रव्यस्य मुख्यरूपतयाऽपरद्रव्यस्यामुख्यरूपतया प्रतिपादनप्रवणो द्वितीयो नैगमः, पर्यायद्रव्ययोरेकस्य पर्यायस्य द्रव्यस्य वा मुख्यतयाऽपरस्यद्रव्यस्य पर्यायस्य वाऽमुख्यरूपतया ज्ञापनप्रवीणस्तृतीयो नैगम इत्यर्थः । तत्र पर्याययोर्मुख्यतया विवक्षणपरं नैगममुदाहरति । ।
पृ. ३० पं. १७ अत्रेति-उपदर्शितप्रकारत्रयमध्य इत्यर्थः ।
पृ. ३० पं. १७ सचैतन्यमात्मनीति-अत्र आत्मधर्मिणि द्रव्ये सवचैतन्ययोस्तद्धर्मत्वात्तत्पर्यायभूतयोस्सच्चतन्यमित्येवं विवक्षणे सत्त्वस्य विशेषणत्वेन गौणत्वं चैतन्यस्य तद्विशेष्यत्वेन मुख्यत्वमित्येवं पर्याययोमुख्यामुख्यतया विवक्षणमित्येव स्पष्टयति ।
प. ३० पं. १८ अत्रेति-सच्चैतन्यमात्मनीत्यस्मिन्नित्यर्थः ।
प. ३० पं. १८ व्यञ्जनपर्यायस्य-चैतन्यमुपयोगस्वरूपमात्मनः प्रतिक्षणं विभिन्नसुखदुःखहर्षविस्मयाद्यर्थपर्यायभावेऽप्यनुगामित्वाद्वयञ्जनपयिस्तस्य ।