________________
., प्रमाणपरिच्छेदः ।
स्त्येव स्यानास्त्येवेति भङ्गः प्रथ्यते, पूर्वत्र विधिनिषेधयोः क्रमिकप्राधान्यकल्पना अत्र तु तयोर्युगपत्प्राधान्यकल्पनाबीजम् । कथश्चिदवक्तव्यत्वाख्यधर्ममात्रप्रकारकधटादिविशेष्यकबोधोऽनेन भङ्गेन जन्यते, तत एव चोक्तभङ्गत्रयादस्य भेदः, निरुक्तबोधजनकवाक्यत्वं चतुर्थभङ्गस्य लक्षणम् , विधिनिषेधयोयुगपत्प्राधान्यविवक्षाया युगपत्प्रधानीभूतविधिनिषेधोभयप्रतिपादकस्यैकस्य कस्यचिद्वचनस्यावक्तव्यशब्दभिन्नस्याभावात्कथञ्चिदवक्तव्यत्वमित्युपपादयति ।
पृ. २७ पं.२४ एकेन पदेन-उभयोः-विधिनिषेधयोः, शशानच्सङ्केतितसत्पदाद्यथा शतृशानचोः प्रतीतिस्तथैकेन विधिनिषेधोभयसङ्केतितेन तदुभयप्रतीतिर्भविष्यतीति कथञ्चिद्व्यात्तत्राह ।
पृ.२७ पं. २४ शतृशानचाविति-यद्यपि तदुभयसङ्केतितं सत्पदं तथापि तेन तवयबोधस्तु क्रमेणैव न तु युगपदेव विधिनिषेधोभयसङ्केतितैकपदविशेपादपि ऋमिकतदुभयबोध एव भवेदित्यर्थः । विधिनिषेधान्यतरत्वेन रूपेण तदु भयसङ्केतितपदाधुगपत्तदुभयबोधस्तु न प्रत्येकासाधारणास्तित्वनास्तित्वादिरूपेण तादृशरूपेणैव तु युगपत्प्रधानतया विवक्षिता विधिनिषेधावित्याह ।
पृ. २७ पं. २५ अन्यतरत्वादिना-आदिपदादुभयत्वप्रमेयत्वज्ञेयत्ववाच्यस्वधर्मत्वादेरुपग्रहात् । अन्यत्सुगमम् । अत्र समासवचनं तत्प्रतिपादकं न सम्भवति समासेषु बहुव्रीहेरन्यपदार्थत्वादत्रतूभयप्राधान्यविवक्षणात्, अव्ययीभावस्तु नैतादशेऽर्थे प्रवर्तते, द्वन्द्वस्तु द्रव्यवृत्तिर्नात्रोपयुज्यते, गुणवृचिरपि द्रव्याश्रितगुणप्रतिपादको न प्राधान्येन गुणप्रतिपादनप्रगल्भः । उत्तरपदार्थप्रधानतत्पुरुषस्यापि नात्रावकासः, सङ्ख्यावाचिपूर्वपदकस्य द्विगोस्तु नेदशोऽथै विषयः, कर्मधारयोऽपि गुणाधारद्रव्यविषयो नात्र क्रमते, समासान्तरन्तु नास्त्येव, वृत्यसम्भिन्नार्थकस्य वाक्यस्यापि कस्यचिन्न तथाभूतधर्मद्वयप्रतिपादकत्वमित्यादिकमवक्तव्यत्वोपोद्वलकं बोध्यम् ॥ इति चतुथमङ्गनिरूपणम् ॥
॥ अथ पञ्चमभङ्गनिरूपणम् ॥ पञ्चमभङ्गनिरूपयति । पृ. २७ पं. २६ स्यावस्त्येवेति-चतुर्थभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य