________________
अनतर्कभाषा । मिति भवति सम्बन्धमात्रव्यापक कथञ्चित्तादात्म्य तथा च पाटलिपुत्रग्रामस्थितस्य घटादेराधाराधेयभावलक्षणसम्बन्धवलात्कथश्चिदभेदे व्यवस्थिते क्षेत्रतः पाटलिपुत्र. कादित्वेन घटादेरस्तित्वमेवं तत्तद्ग्रामदेशादिस्थितस्य तत्तद्ग्रामदेशादित्वेनास्तित्वं स्वानाधारक्षेत्रकान्यकुब्जादित्वेन तु अस्तित्वं न सम्भवति, तेन रूपेणाप्यस्तित्वे घटादीनां सर्वेषां सर्वदेशव्यापित्वं प्रसज्येतेति प्रतिनियतक्षेत्राधारता भज्येतेति । यस्मिन्काले यद्भवति तस्य तत्कालेन सह जन्यजनकभावलक्षणसम्बन्धविशेषबलाद्विशिष्टबुद्धयाधानक्षमात्कथश्चित्तादात्म्यमिति शैशिरादिकालसमुद्भवस्य घटादे.
शशिरादित्वेनास्पित्वं न तु वासन्तिकादित्वेन, तेन रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वकालात्मनाभावात्सदातनत्वम्प्रसज्यतेति प्रतिनियतकालत्वनिबन्धनका. दाचित्कत्वं भज्येतेति पदार्थो घटादिश्श्यामादिभावमापनस्तदानीं तस्य श्यामादिभावेन सह सम्बन्धविशेषबलात्कथश्चित्तादात्म्यमिति श्यामादित्वेन घटादेरस्त्विं न तु रक्तादित्वेन, तद्रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वस्वभावतापत्तिरिति प्रति. नियतस्वभावताभङ्गात्प्रतिनियतस्वभावनिमित्तकविवित्तप्रतिनियतस्वभावव्यवहारभङ्गस्यादिति प्रथमभङ्गनिरूपणम् ।।
॥ अथ द्वितोयभङ्गनिरूपणम् ॥ द्वितीयभङ्गनिरूपयति ।
पृ. २७ पं. १७ एवमिति-प्रथमभङ्गे अस्तित्वादिविधिरूपधर्मस्य, प्राधान्यविवक्षा तेन नास्तित्वरूपनिषेधधर्मस्य गौणतयैव तत्र प्रतिभासनं न तु प्रथम भङ्गजन्यबोधे निषेघस्य सर्वथा प्रतिभासनमेव, तथासत्येकधर्मकान्तावबोधकत्वेन दुनयवाक्यत्वं प्रसज्येतेत्येवंसति तत्समुदायस्वभावमहावाक्यलक्षणसप्तभङ्गया अपि प्रमाणवाक्यत्वं न स्यादन्धसमूहस्यान्धत्ववत् इयाँस्तु विशेषः प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकासासद्भावाननिराकाङ्क्षा र्थावबोधकत्वं सप्तभयास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थविबोधकत्ममित्ये. तावतामहावाक्यत्वन्तस्या इति परिपूर्णार्थविवोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि, अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविषया एकैकार्थपर्यायत्वेन स्वगताशेषस्वपर्यायात्मकधमाणाश्च स्वपर्यायविधया तथात्वेन