SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९४ जैनतर्कमावा । ल्पयोनिस्वं शब्दानां विकल्पाना बानशब्दयोनित्वमित्याशयः। ननु शब्दस्यैव लोके आगमतया प्रसिद्धेः कथमस्यागमत्वमित्यत उक्तमाप्तवचनादाविभूतमिति, आप्तवचनस्यागमत्वात्तत उत्पन्नेऽर्थसंवेदने कार्य कारणोपचारमाश्रित्यागमोक्तिरविरुद्धा अत एवार्थसंवेदनस्य प्रमाणत्वात्तत्कारणे शब्दे कार्योपचारमाश्रित्यात्राप्तवचनं प्रमाणमिति व्यवहार उपपद्यत इति बोध्यम् । विप्रतारकाद्यनाप्तवचनसम्भूतार्थसंवेदनस्यागमप्रामाण्यं माप्रसासीदित्येतदर्थमाप्तेति विशेषणं, अनेन च विशेषणेन पुरुषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषस्यावश्यम्भावाद्वेदस्य पुरुषप्रणीतत्वे कारणदोषनिवन्धनदोषसम्भवतःप्रमाण्यन्नस्यादित्यपौरुषेयो वेदः प्रमाणमिति मीमांसकमतस्य निरासः कृतो वेदितव्यः । अपगताशेषरागादिदोषस्यतीर्थकरादेः पुरुषविशेषस्याप्तस्य सम्भवेन तद्वचनस्य निर्दुष्टस्य यथार्थसंवेदनकारणस्य सम्भवाप्रतिनियतताल्वादिस्थानकस्य पौद्गलिकत्वाकारादिवर्णस्यैवानित्यत्वेन तदा तदानुपूर्वीविशेषवतां पदानां तत्समुदायात्मकवाक्यसन्दर्भविशेषरूपस्य वेदस्यानित्यत्वस्यैव प्राप्रपौरुषेयत्वासम्भवात् । उत्पन्नो वर्णो विनष्टो वर्ण इत्यादिप्रती तिबाधात्सोऽयं इत्यादिप्रत्यभिज्ञानैकान्ताभेदालम्बना किन्तु साजात्यावलम्बनैवेति नन्वेते पदार्था मिथः संसर्गवन्तः आकाङ्क्षादिमत्पदस्मारितत्वात् दण्डेन गामभ्याजेतेतिवाक्योपस्थापितपदार्थकदम्बकवदिति एतानि पदानि तात्पर्यविषयपदार्थसंसर्गज्ञानर्पूवकाणि आकाङ्क्षादिमत्पदकदम्बत्वाद्गामानयेत्यादिपदकम्बव दिति वाऽनुमानस्यात्र सम्भव इत्यनुमानप्रमाण एवान्तभाव आगमप्रमाणस्येति वैशेषिकमतमाशङ्कय प्रतिक्षिपति । पृ. २६ पं. २२ न चेति-व्याप्तिग्रहणवलाद्यथा धूमादिलिङ्गकानुमानस्योत्पत्तिस्तथा प्रकृते शाब्दस्थलाभिषिक्तानुमानस्येतिव्याप्तिग्रहणवलेनार्थप्रतिपादकत्वत अत्गमस्यानुमानेऽन्तर्भाव इत्याह । पृ. १६ पं. २३ व्याप्तिग्रहणवलेनेति अस्य-आगमस्य, अनभ्यासदशायां निरुक्तसाध्यसाधनादिकल्पनातस्तदविनाभावग्राहितकप्रमाणतोत्रानुमानावतारसम्भवेऽप्यभ्यासदशायां निरुक्तसाध्य साधनाविनाभावप्रतिसन्धानवि. नाऽपि शब्दाद्विशिष्टार्थबोधस्य वाच्यवाचकभावलक्षणसम्बन्धग्रहणवलादर्थोपस्थि. तिद्वारा जायमानत्वेनानुमानादस्य पार्थक्यादिति प्रतिक्षेपहेतुपन्यस्यति ।
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy