SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः । १८९ परमिदानों सभाक्षोभादिना न स्मृतिपथमुपैति, सन्नपि संस्कारो नोबोधमुपयातीत्यतस्तत्समर्थनन्यायविस्मरणादिलक्षणकारणेन, प्रतिवादिनं स्वपक्षविरुद्धपक्षस्थापकतया स्वप्रतिमल्लम् । पृ. २५ पं. २२ प्राश्निकान्-वादिप्रतिवादिसिद्धान्तरहस्यज्ञान् मध्यस्थान चा, प्रतिबोधयितुम् इदं मद्धेतुसिद्धिसमर्थ प्रमाणमिति ज्ञापयितुं । पृ. २५ पं. २२ न शक्नोति-न शक्तिमाबिभ्राति, एवं सति स्वहेतो. रसिद्धतामेव स्वीकरोति, कथमेवं स्यात्स्वहेतोः सद्धेतुतां जाननयमप्रतिमामात्रेण प्रतिपन्नस्य तस्यासिद्धतां कथं नाम स्वीकरोत्विति । पृ. २५ पं. २२ असिद्धतामपि नानुमन्यते-एवञ्च न वादिसिद्धत्वाम वाद्यसिद्धोऽयं, प्रतिवादी तु स्वयं स्वपक्षप्रतिपक्षसाधकं तं न स्वीकरोत्येव । वादिनाऽपि तत्साधकप्रमाणानुपन्यासान तथाप्रतिबोधित इति वादीत्वोपन्यस्तहेतोस्तदानीमन्यतरासिद्धत्वेनैव । पृ. २५ पं. १३ निगृह्यते-निग्रहस्थानमापनत्वानिगृहीतो भवति, प्रकारान्तरेणापि अन्यतरासिद्धत्वत्वमुपपादयति । पृ. २५ पं. १३ तथेति-स्वयमनभ्युपगतोऽपि-स्वाभ्युपगमविषयोऽपि एतावता वाद्यसिद्धतां प्रकटीकृतम् , तर्हि कथमित्थं जाननप्यसिद्धेनैव हेतुना परम्प्रति साध्यं साधयितुं प्रवृत्त इत्याकाङ्क्षायामाह । पृ. २५ पं. २४ परस्येति-भवतु ममासिद्धोऽयं परस्तु यदि स्वसिद्धत्वतो ऽस्मसिद्धत्वमेवाज्ञानादयं धारयेत्ततश्चासिद्धिनोद्भावयेत्, नहि सिद्धं नः । समीहितमिति परस्य सिद्धोऽयमित्येतावन्मात्रेण वादिनोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणं निग्रहस्थानं भवतीतिशेषः । एतदुहाहरति । पृ. २५ पं. २५ यथेति-सुखादयोऽचेतना उत्पत्तिमत्त्वादित्यत्रोत्पत्तिमत्व लक्षणो हेतुः प्रतिवादिनो जैनस्य सिद्ध एव सुखादीनामुत्पत्तिमत्त्वस्य जैनेनाभ्युपगमात् , किन्तु सत्कार्यमभ्युपगच्छतो वादिनः कुत्राप्युत्पत्तिमत्त्वं न सिद्धं दृष्टान्तेऽपि घटे तदसिद्धमेवेति भवति तदन्यतरासिद्धमिति ॥ इति असिद्धाख्यहेत्वामासनिरूपणम् ॥
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy