SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८२ जैनतर्कभाषा समानकालीनत्वेनानयोः पौर्वांपर्याभावात् पौर्वापर्यनियतकार्यकारणभावोऽपि नेति, स्वभावकार्यकारणेषु सहचरस्य नान्तर्भाव इति पृथगेवायं हेतुरित्याह । पृ. २३ पं.२४ परस्परेति, अस्य-सहचरस्य उदाहृताना हेतूनां भावरूपत्वादावसाधकत्वाच्च विधिसाधकविधिरूपत्वं विधेयेनाविरुद्धतयोपलभ्यमानत्वादेव चाविरुद्धोपलब्धिरूपत्वमन्यत्र गीयत इत्युपसंहरति ।। पृ. २३ पं. २५ एतेषूदाहरणेविति, त एव-पूर्वमुदाहृता धूमादिहेतव एव, इति विधिसाधकविधिस्वरूपहेतुषट्प्रकारोपवर्णनम् । अथ प्रतिषेधसाधक विधिस्वरूपहेतून्निरूपयति । पृ. २३ पं.२८ द्वितीयस्त्विति-प्रतिषेधसाधकविधिस्वरूपहेतुस्त्वित्यर्थः । प्रथमस्याविरुद्धोपलब्धिसंज्ञकत्वे निगमिते, द्वितीयस्य विरुद्धोपलब्धिसंज्ञकत मागतमेव, तथापि स्पष्टप्रतिपत्तये उक्तम् - पृ. २३ पं. २८ विरुद्धोपलब्धिनामेति-प्रतिषेधसाधकविधिस्वरूपहेतुप्रकारानुपदर्शयति। पृ. २३ पं. २८ स चेति-विरुद्धोपलब्धिनामको निषेधसाधको विधिस्वरूप हेतुश्चेत्यर्थः । पृ. २३ पं. २८ स्वभावेति-निषेध्यस्वभावविरुद्धोपलब्धिः १ निषेध्यव्याप्यविरुद्धोपलब्धिः २ निषेध्यविरुद्धकार्योपलब्धिः ३ निषेध्यविरुद्धकारणोपलब्धिः ४ निषेध्यविरुद्धपूर्वचरोपलब्धिः ५, निषेध्यविरुद्धोत्तरचरोपलब्धिः ६, निषेध्यविरुद्धसहचरोपलब्धि ७. इत्यवं सप्तप्रकारो निषेधसाधको विरुद्धोपलन्धिनामको विधिस्वरूपो हेतुरित्यर्थः । क्रमेण तानुदाहरणतो भावयति । पृ. २४ पं. १ यथेति-नास्त्येव सर्वथा एकान्तः अनेकान्तस्योपलम्भादि. त्यत्र अनेकान्तलक्षणो हेतुः प्रथमः नास्त्यस्य तत्वनिश्चयः तत्र सन्देहादित्यत्र तत्वविषयकसन्देहलक्षणो हेतुद्वितीयः, नास्त्यस्य क्रोधोपशान्तिः वदनविकारादेरित्वत्र वदनविकारादिलक्षणो हेतुस्तृतीयः, नास्त्यस्यासत्यं वचः रागाद्यकलङ्कितज्ञानकलितत्वादित्यत्र रागाद्यकङ्कितज्ञानकलितत्वरूपो हेतुश्चतुर्थः, नोद्गमिप्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमादित्यत्र रोहिण्युद्गमात्मकहेतुः पञ्चमः,
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy