SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिलोदः । १५. संहतपगर्थवसाधनप्रतिकूलस्तर्क इत्यर्थः । शङ्कितस्यव साध्यत्वं न तु विपरीनानध्यवसितयोरिति परमतमुपन्यस्य प्रतिक्षिपति । _. पृ. १८. पं. १६ कथायामिति-कथायां यथा सन्दिग्धार्थनिर्णयाय वादी समुपसर्पति तथा विपरीतस्याप्यर्थस्य स्वयं सत्यतयैवावधारितस्य परः कथमस्य वैपरीत्यं साधयितुं प्रगल्भ इति जिज्ञासया विपर्यस्तोऽपि तत्र प्रविशत्येव, एवमव्युत्पन्नोऽपि ममाज्ञानमनध्यवसायो वा यथावस्थितार्थावबोधतो विनयतीति मतिमास्थाय कथायामुपसर्पत्येवेति तौ प्रति विपर्ययानध्यवसायनिरासार्थमपि संशयनिरासार्थमिवानुमानप्रयोगस्सम्भवत्येवेति शङ्कितत्वमिव विपरीतत्वानध्यवसितत्वेऽपि साध्यविशेषणतयोपयुक्ते एवेत्याह । पृ. १८. पं. १७ विपर्यस्ताव्युत्पन्नयोरपीति-न चैतत्कल्पनामात्रं दृश्यतेऽपि लोके विपर्यस्ताव्युत्पन्नपुत्रादिशिक्षणार्थ यथावस्थिततत्त्वावबोधकन्यायप्रयोगे यतमानः पित्रादिः, अन्यथाविपर्यस्तमव्युत्पन्नं वा पुत्रादिकं प्रति विपरीतस्यानध्यवसितस्य वा वस्तुनोऽसाध्यत्वेन साधनासम्भवेऽशक्यानुष्ठाने प्रवर्त्तमानः पित्रादिः प्रेक्षावतामुपहसनीय एव स्यादित्यभिप्रायः। विपरीतानध्यवसितयोस्साध्यत्वानङ्गीकारेऽनिष्टापत्तिमुपदर्शयति । पृ. १८ पं. २० न चेदेवमिति-यदि विपरीतानध्यवसितयोस्साध्यत्वं न स्यात्तदेत्यर्थः। पृ. १८. पं. २१ तस्य-जिगीषोः । अनिराकृतमिति चैकेन वादिना प्रतिवादिनानिराकृतमिति नाभिमतं किन्तु वादिप्रतिवादिभ्यामुभभ्यामपि यत्प्रत्यक्षादिप्रमाणेन निराकृतन्न भवति तदेव साध्यमभिमतमित्याह । पृ. १८. पं. २२ अनिराकृतमिति...द्वयोः-वादिप्रतिवादिनोः । अभीप्सितमिति तु अनुमानप्रयोक्तुरेवाभिमतमित्येवंरूपमित्याह । पृ. १८. पं. २३ अभीप्सितमिति तु वाद्यपेक्षयैव-अनुमानप्रयोगकत्रपेक्षयैव तथा चाभीप्सितमित्यस्य वाद्यभीप्सितमित्यर्थः । तत्र हेतुमाह । पृ. १८. पं. २४ वक्तुरेवेति-अस्य इच्छासम्भवादित्येतद्घटकेच्छायामन्वयः स्वाभिप्रेतेत्यत्र खपदेन वक्तुग्रहणम् ।
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy