SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः। रेण प्रतिबिम्बस्यानुपपत्तिलक्षणनियमबलादेवेति तत्रापि पक्षधर्मत्वाभावेऽपि प्रतिबिम्बलक्षणहेतुतो बिम्बलक्षणसाध्यानुमितिर्जायत इत्याह । पृ. १७. पं. ७ अस्तिनभश्चन्द्रइति-नभश्चन्द्र आकाशस्थितश्चन्द्रो बिम्बात्मा, जलचन्द्रो जले चन्द्रप्रतिविम्बनादाभासमानश्चन्द्रः इत्यादीत्यादिपदादभूस्कृतिकोदयश्शकटोदयात वृद्धिमान् समुद्रश्चन्द्रोदयात् , अयं बाह्मणः पित्रोबाह्मण्यात् , उपरिदेशेऽभूदृष्टिः अधोदेशे नदीपूरवचात , भविष्यति वृष्टिः साण्डपिपीलिकोर्ध्वसञ्चारादित्यादेरुपग्रहः, पक्षधर्मत्वस्य साध्यगमकत्वाङ्गत्वं भट्टस्यापि न सम्मतं । तदुक्तम् । पित्रोश्च बाह्मण्येन पुत्रबाह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥१॥ नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ २॥ इति ॥ ननु कृतिकोदयकालरोहिण्युदयकालद्वयव्यापकस्थूलकाल एव कृतिकोदयेन शकटोदयानुमाने पक्षीकरणीयस्तत्र साध्यहेत्वोरुभयोरप्यस्त्येव सद्भावः, एवं सर्वकालवत्तिन्याकाशात्मकदेशे तयोरस्ति सद्भाव इत्याकाशम्पक्षीकृत्यापि पक्षधमता सुसम्पायेति पराकूतमाशङ्कय प्रतिक्षिपति । पृ. १७. पं. ८ न चात्रापि-वाच्यमित्यनेनान्वयः । अत्रापि उदेष्यति शकटं कृतिकोदयादित्यादावपि, उदेष्यति शकटमित्याद्यनुमाने धर्मितया विषय. त्वं कालाकाशादेर्नानुभूयत इति न तस्य पक्षत्वम् , अननुभूयमानस्यापि पक्षतया विषयत्वाभ्युपगमे तु प्रासादधावल्यमस्ति काककायादित्यप्यनुमानम्भवेत् जगद्रपपक्षे प्रासादधावल्यकाककाष्ण्ययोस्सद्भावादित्याह । पृ. १७ पं. १० अननुभूयमानेति-इत्थं कालाकाशादिकं गृहीत्वा, ननु पक्षः साध्यश्चेति द्वयं भासते, तत्र हेतोर्यद्वयाप्तिरूपं बलं तद्वलाद्वथापकस्य साध्यस्य भानं, यच्च पक्षधर्मतारूपं बलं तद्वलाद्धर्मिणः पक्षस्य भानमितिव्याप्तिवत्पक्षधर्मताऽपि हेतोरवश्यमुपेया हेतुबलमन्तरेणैव धर्मिणोऽनुमितौ भाने नियतस्यैव
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy