SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४० जैनतर्कभाषा। व्यवहारः, अज्ञानश्च ज्ञानाभावस्तनिवृत्तिज्ञानं तच्च स्वसंविदितत्वात्फलं स्वव्यवसितित्वेन फलत्वस्य पूर्व व्यवस्थापितत्वात्स्वसंविदितश्च तर्कज्ञानमपि तदात्मकफलाव्यभिचारित्वादपि भवति प्रमाणमिति धर्मभूषणोऽपि स्याद्वादिनाऽनुगृहीतः स्यादेवेत्याह । पृ. १६. पं. १९ ज्ञानाभावनिवृत्तिस्त्विति-न्यायमते व्यवसायस्य फलमनुव्यवसायस्तस्मिन्सति ज्ञानलक्षणप्रत्यासत्या व्यवसायलक्षणज्ञानस्य विषयतयाऽर्थे प्रतिभासादर्थो ज्ञात इति व्यवहारो भवति, जैनमते च व्यवसायज्ञानमेव स्वसंविदितमनुव्यवसायस्थानं तदेवार्थे ज्ञातताव्यवहारनिवन्धनत्वात्फलं तच्च सर्वस्य ज्ञानस्याविशिष्टमित्याशयः । । इति तर्कनिरूपणम् । ॥ अथ अनुमानप्रमाणनिरूपणम् ॥ अनुमानं निरूपयति । . १६. पं. २३ साधनादिति-अत्र अनुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानमिति लक्षणनिर्देशः । एतच्चानुमानसामान्यलक्षणं विशेषलक्षणमग्रे वक्ष्यते, स्वार्थपरार्थभेदेन अनुमानस्य द्वैविध्यं दर्शयति । पृ. १६. पं. २३ तदिति-अनुमानमित्यर्थः । - पृ. १६. पं. २४ तत्र-स्वार्थानुमानपरार्थानुमानयोर्मध्ये हेतुग्रहणसम्बन्धसरणकारणकं साध्यविज्ञानमितिलक्षणनिर्देशः, स्वार्थमितिलक्ष्यनिर्देशः, यथा महानसे वह्निधूमयोर्गृहीताविनाभावस्य पुंसः पर्वतसमीपं गतस्य प्रथमं पर्वते धूमस्य ग्रहणं पर्वतोऽयं धूमवानिति, ततो वह्निधूमयोः पूर्वगृहीतस्य व्याप्तिरूपसम्बन्धस्य स्मरणम् , वहिव्याप्तो धूम इत्याकारकं, तदनन्तरं पर्वतो वह्निमानिति ज्ञानं समुत्पद्यते तदनुमानमनुमितिः । तत्र धूमग्रहणं करणं व्याप्तिस्मरणं व्यापार इत्येवाभ्युपेयते न तु वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्यापि तत्र कारणत्वमिष्यते इत्याशयेन तदुदाहरति ।
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy