SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३४ जैनतर्कभाषा। पृ. १५. पं. १७ श्रुत्वा प्रवर्त्तमानस्य-तादृशवाक्य श्रवणानन्तरं गवानयनगोचरप्रवृत्तिमतः प्रयोज्यवृद्धस्य आज्ञाकारिणो गृहीतशद्धार्थवाच्यवाचकमाव. सम्बन्धकस्य पुंसः। पृ. १५. पं. १७ चेष्टामवलोक्य-गवानयनगोचरशरीरक्रियां दृष्ट्वा । पृ. १५. पं. १८ तत्कारणज्ञानजनकताम्-प्रयोज्यवृद्धगतगवानयनानु. कूलचेष्टाजनकप्रवृत्तिद्वारकज्ञानस्य गवानयनम्मदिष्टसाधनमित्याकारकस्य प्रयोज्य. धृद्धज्ञानस्य जनकताम् । पृ. १५. पं. १८ शद्वे-प्रयोनकवृद्धोच्चरिते गामानयेत्यादिवाक्ये । पृ. १५. पं. १८ अवधारयतः-अनुमिन्वतः, अनुमानप्रयोगश्च प्रयोज्यवृद्धस्य गवानयनानुकूला चेष्टा गवानयनगोचरप्रवृत्तिजन्या गवानयनानुकूलचेष्टात्वात् , य यदनुकूला चेष्टा सा तद्गोचरप्रवृत्तिजन्या यथा मम भोजनानुकूलचेष्टा भोजनगोचरप्रवृत्तिजन्येति, सा प्रवृत्तिः गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या गवानयनगोचरप्रवृत्तित्वात् या यगोचरा प्रवृत्तिः सा तद्विशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या, यथा मम भोजनगोचरप्रवृत्तिः भोजनविशेष्यकेष्टसा. धनत्वप्रकारकज्ञानजन्येति, प्रयोज्यवृद्धस्य गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानं प्रयोजकवृद्धोच्चरितगामानयनयेतिवाक्यजन्यं कारणान्तराभावे सति तदनन्तरं जायमानत्वादिति, पुनः कीदृशस्य । पृ. १५. पं. १८ अन्त्यावयवश्रवणेति-गामानयेत्यादिवाक्यस्य योऽन्त्यावयवः अन्त्यपदरूपस्तस्य श्रवणं, तस्य वाक्यस्य यः पूर्वावयवः पूर्वपदरूपस्तस्य स्मरणं ताभ्यां जनितं यद्वर्णपदवाक्यविषयकसङ्कलनात्मकप्रत्यभिज्ञानं तद्वतः अत्र पार्श्वस्थबालस्येति दृश्यं तत्र बालपदमगृहीततद्वाक्यघटकपदतदर्थवाच्यवाचकभावसम्बन्धकपुरुषपरम् एतावता तर्ककारणानां दर्शनस्सरणप्रत्यभिज्ञानानां सम्पत्तिर्दर्शिता, तादृशस्य पुंसः वाच्यवाचकभावप्रतीतिदर्शनादित्यत्र प्रतीतावन्वयः पृ. १५. पं. २० आवापोद्वापाभ्याम्-गामानयेत्यादिवाक्ये गामिति स्थाने अश्वमित्यस्य प्रक्षेप आवापः, गामित्ययापनयनमुद्वापः एवमानये त्यस्य स्थाने नय इत्यस्य प्रक्षेप आवापः आनयेत्यस्यापनयनमुद्वापः यथाऽश्वमानय
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy