SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः। - पृ. १४. पं ४ विशिष्टस्य-गवयनिरूपितसादृशविशिष्टस्य गोस्वरूपस्य गवयनिरूपितस्य गोनिष्ठसादृश्यस्य वा। पृ. १४. पं. ४ अन्यतोऽसिद्धेः-अनुमानप्रमाणव्यतिरिक्तप्रमाणात्सिद्धयभावात् । पृ. १४. पं. ४ उपमानप्रमाणता-उक्तविशिष्टसिद्धये उपमानस्य प्रत्यक्षादिप्रमाणव्यतिरिक्तप्रमाणता आस्थेयेति । यद्यत्सङ्कलनात्मकं ज्ञानं तत्सवं प्रत्यभिज्ञानमेवेत्युक्तसादृश्यज्ञानस्यापि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वमेवेति तस्योपमानतया प्रमाणान्तरत्वमननं न युक्तमित्याह । पृ. १४. पं. ६ तन्नति-दृष्टस्येत्यादिव्यक्तम् । पृ. १४. पं. ८ अन्यथा-सङ्कलनात्मकस्यापि सादृश्यज्ञानस्य प्रत्यभिज्ञानत्वमनभ्युपगम्य प्रमाणान्तरोपमानरूपत्वाभ्युपगमे, इत्यादेरित्यादिपदादूरत्वादिज्ञानस्योपग्रहः। पृ. १४. पं. ९ सादृश्याविषयकत्वेनेति-सादृश्यविषयकज्ञानमेव भवतोपमानतयाऽभ्युपगम्यत इतिवैसदृश्यादिज्ञानस्य सादृश्यविषयकत्वाभावेनोपमानभिन्नत्वप्राप्तौ प्रत्यक्षानुमानोपमानशाद्वार्थापत्युपलब्धिभेदेन प्रमाणस्य षड्विधत्वं यद्भवता मीमांसकेनाभ्युपेयते तस्य व्याघातः प्रसज्येतेत्यर्थः । सादृश्यज्ञानस्योपमितिरूपता यद्यपि नैयायिकेन नाभ्युपगम्यते । यत उक्तं उदनाचार्येण साधर्म्यमिव वैधम्यं मानमेवं प्रसज्यते । अर्थापत्तिरसौ व्यक्तमिति चेत्प्रकृतं न किम् ? ॥१॥ इति । तथापि सम्बन्धस्य परिच्छित्तिः सञ्ज्ञायास्सञ्जिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १॥ इत्यादिनोदयनाचार्येण "अयं गवयपदवाच्य इति गवयो गवयपदवाच्य
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy