SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः । वचस्य गोमात्र एवाभावादसम्भवः, मीमांसकोक्तमपि अनधिगतार्थाधिगन्तुज्ञानत्वं प्रमाया लक्षणं, यत्र घटे चक्षुस्सन्निकर्षस्य चिरकालमवस्थाने, ततः अयं घटोऽयं घट इत्येवं ज्ञानाधारा जायते तत्र धारावाहिकज्ञाने पूर्वपूर्वज्ञान गृहीतस्यैव घटस्योत्तरोत्तरज्ञानेनावगाहनाद्गृहीतग्रा हित्वेनागृहीतग्राहित्वस्याभावादव्याप्तेः, भ्रमे चेदं रजतमितिज्ञाने पूर्वज्ञानागृहीतस्य शुक्तौ रजतत्वस्य ग्राहित्वादतिव्याप्तिर्न संभवति एवञ्च यथार्थानुभवोऽवाधितार्थग्राह्यनुभवः, मानं प्रमा, स्मृतेरपि यथार्थत्वात्सा च स्वप्रामाण्ये स्वकरणीभूतस्य प्रामाण्यापेक्षणात, अनुभवे प्रमाणे सत्येव तजन्या स्मृतिः प्रमा नान्यथेति स्वप्रामाण्ये तस्या अन्यप्रामाण्यापेक्षा नो वस्तुगत्या न तस्याः प्रामाण्यमिति तद्वयावृत्तये प्रमालक्षणेऽनुभवत्वं निवेश्यते, अनपेक्षतयैव चानुभवो मानमिष्यत इति । ततश्च स्मृतिर्न प्रमाणमित्याशङ्कते । ११९ पृ. १२. पं. १५ अनुभवेति... पारतन्त्रादत्रेति - स्मरणे, स्वप्रमात्वे अन्यदीयप्रमात्वनिरपेक्षत्वे सत्येव यदि प्रामाण्यमिष्यते तदानुमितिरपि प्रमा न भवेत्, साऽपि प्रमात्मकव्याप्तिज्ञानजन्यैव प्रमेतिस्वप्रामाण्ये व्याप्तिज्ञानप्रामाण्यापेक्षणादिति समाधत्ते । पू. १२. पं. १८ अनुमितेरपीति - व्याप्तिज्ञानादीत्यादिपदात्परामर्शपरिग्रहः । व्याप्तिज्ञानस्यानुमित्युत्पत्तावेवापेक्षा न तु अनुमितौ विषयप्रतिभासे इति स्वविषयप्रतिभासेऽनुमितेरन्यमुखनिरीक्षकत्वाभावात्प्रामाण्यमिति शङ्कते । पं. १२. पं. १९ अनुमिते... परापेक्षा - व्याप्तिज्ञानाद्यपेक्षा, तदेतत् प्रकृतेऽपि तुलयमिति समाधत्ते । पृ. १२. पं. २० स्मृतेरपीति- उक्तप्रतिविधान मसहमानः परश्शङ्कते । पृ. १२. पं. २१ अनुभवेति- यद्यनुभवविषयीकृतभावविषयकत्वात्स्मृतेर्न स्वविषये परिच्छेदे स्वातन्त्र्यम्, तर्हि व्याप्तिज्ञानविषयीकृतव्यापकीभूतसाध्यविषयकत्वादनुमितेरपि न स्वविषयपरिच्छेदे स्वातन्त्र्यं तर्हि व्याप्तिज्ञानविषयीकृतव्यापकीभूतसाध्यविषयकत्वादनुमितेरपि न स्वविषयपरिच्छेदे स्वातन्त्र्यमिति साऽपि प्रमा न भवेदिति समाधत्ते । पृ. १२ पं. २३ तहींति - ननु यो यो धूमवान् स स वह्निमानितिव्या
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy