________________
जैनतर्कभाषां ।
औदारिकशरीरस्थितिम्प्रति कवलाहारस्य सामान्यत एव कार्यकारणभावस्य निर्णीतत्वेन कवलाहाररूपकारणं विना केवलिन औदारिकशरीरस्थितिरूपकार्य कथं स्यान्न स्यादेवेत्यर्थः । यदि चास्मदादीनामाहारमन्तरेण शरीरधारणे सामर्थ्य - विशेषलक्षणवीर्यन्नास्तीति नास्मदादीनामौदा रिकशरीरावस्थानं कवलाहारमन्तरेण सम्भवति, केवली तु भगवाननन्तवीर्य इति वीर्यविशेषबलादेव तदौदारिकशरीरस्थितिः सम्भवतीति न तत्र कवलाहारपेक्षा, तर्हि केवलज्ञानात्पूर्वमपि तस्यापरिमितबलत्वमागमे भणितमिति तद्वलाच्छद्रस्थावस्थायां केवलज्ञानोत्पत्तितः प्राक्कालीयानामपि कवलाहारस्तस्य न स्यादेव तं विनाऽपि तदीयशरीरस्थितिसम्भवादित्याह ।
पृ. १२. पं. ८ अनन्तवीर्यत्वेनेति - अपरिमितवीर्यत्वेनेत्यर्थः ।
पृ. १२. पं. ८ तां विना - कवलभुक्तिमन्तरेण ।
पृ. १२. पं. ८ तदुपपन्तौ - भगवत औदारिकशरीरस्थितिसम्भवे, इति केवलिनः कवलाहारमनभ्युपगच्छतो दिगम्बरस्य खण्डनम् इति केवलज्ञाननिरूपणम् इत्थं निरूपितं प्रत्यक्षप्रमाणमुपसंहरति । उक्तं प्रत्यक्षमिति ।
"
११६
॥ इति प्रत्यक्षप्रमाणनिरूपणम् ॥
॥ अथ परोक्षप्रमाणनिरूपणम् ॥
अथ परोक्षप्रमाणनिरूपणमधिकरोति ।
पृ. १२. पं. १२ अथेति - अस्पष्टमिति लक्षणनिर्देशः परोक्षमितिलक्ष्यनिर्देश: । अस्पष्टता च प्रत्यक्षतोऽल्पतरविशेषप्रकाशनम्, अस्पष्टञ्जानामीत्यनुभवसिद्धो विषयताविशेषो वा यस्य ज्ञानं स विषयः, तद्विषयकं च ज्ञानं विषये विषयतास्वरूपसम्बन्धेन वर्त्तते, ज्ञानेन सह विषयगताया विषयताया निरूप्यनिरूपकभावः सम्बन्धः । तत्र विषयताज्ञाननिरूपिता ( ज्ञाननिरूप्या ) भवति, ज्ञानं च विषयतानिरूपकम्भवति, तथा च निरूपकतासम्बन्धेन अस्पष्टताख्यवियता अस्पष्टताख्यविषयता निरूपकत्वं वा परोक्षप्रमाणस्य लक्षणमितिभावः । ॥ अथ परोक्षप्रमाणस्य विभागः ॥