________________
१०९
१. प्रमाणपरिच्छेदः। र्यायमिति-यावत्कालं पुरुषभावेन जन्तोरवस्थितिस्तावत्कालं तस्य पुरुषवेदोऽ वतिष्ठने, एषैव दिक् स्त्रीवेदनपुंसकवेदयोरपि
पृ. ११. पं. ८ इदमपि-अप्रतिपात्यवधिज्ञानमपि, पृ. ११. पं. ८ तथा-केवलावाप्तिपर्यन्तं मरणपर्यन्तं वाऽवतिष्ठते ।
॥ इत्यवधिज्ञाननिरूपणम् ॥
॥ अथ मनःपर्यायज्ञाननिरूपणम् ॥ मनःपर्यायज्ञानं निरूपयति
पृ. ११. पं. १० मनोमात्रेति-मनोमात्रसाक्षात्कारीतिलक्षणनिर्देशः, मनःपर्यवज्ञानमितिलक्ष्यनिर्देशः । यदा कश्चित्पुमान् मनसि किश्चिद्धाह्यवस्त्वादिकं विचारयति तदा विचार्यमाणबाह्यवस्त्वाद्यकारेण परिणतं तस्य मनोद्रव्यं मनःपर्यवज्ञानी जानातीति मनःपर्यवज्ञानिनः विशुद्धसंयमविशेषवतः साधोः क्षयोपशमविशेषात्मनोद्रच्यतत्पर्यायमात्रसाक्षात्कारिज्ञानं .मनःपर्यवज्ञानमित्यर्थः । केवलज्ञानमपि सकलवस्तुविषयकं मनोद्रव्यसाक्षात्कारि भवत्येवेति तत्रातिव्याप्तिवारणाय मात्रपदम् । यद्यपि अवधिज्ञानं रूपिद्रव्यविषयकं पौद्गलिकस्य मनसोऽपि रूपिद्रव्यत्वेन तद्विषयकमपि, तथापि नैतादृशं किश्चिदप्यवधिज्ञानं समस्ति-यन्मनोद्रव्यमेव विषयीकरोति न मनोद्रव्यभिन्नं रूपिद्रव्यमिति मनोद्रव्यमात्रसाक्षात्कारित्वस्य तत्राप्यभावान्नावधिज्ञानेऽतिव्याप्तिः । ननु मनश्चिन्तनीयबाह्यवस्त्याकारेण परिणतं मनःपर्यवज्ञानी जानानो मनसि वाकारधायक चिन्तनीयबाह्यवस्त्वपि जानीत एवेति मनापर्यवज्ञानेऽपि मनोमात्रसाक्षात्कारित्वं नास्त्येव, मनोभिन्नचिन्तनीयबाह्य वस्तुसाक्षात्कारित्वस्यापि भावादित्यबोधविजृम्भिताशङ्कापनोदायाह
पृ. ११. पं. १० मनःपर्यायानिदमिति-मनःपर्यवज्ञानम् , पृ. ११. पं. ११ अलम्-समर्थम् ।
पृ. ११. पं. ११ तदन्यथाऽनुपपत्त्येति-मनसश्चिन्तनीयवाद्यवस्त्वाकारपर्यायान्यथानुपपत्त्येत्यर्थः । अयमभिप्राय:मनापर्यवनानस्य यदि मनोद्रव्यमा