SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः । पृ. ८. पं. ८ प्राच्यापायपरिणामस्येति-अस्याप्यपायाभ्यधिकत्वादि. त्यनेन सम्बन्धः। पृ. ८. पं. ९. तदाधायकेति-प्राच्यापायपरिणामामृत्याधायकेत्यर्थः, तदाधायकत्वं तदुत्पादकत्वम् , अनेन स्मृतेः कारणीभूताया वासनाया न स्मृतावन्तर्भाव इत्यप्यावेदितम् । अविच्युतिस्मृत्योः गृहीतग्राहित्वेनाबाधितागृहीतग्राहिज्ञानत्वलक्षणप्रामाण्याभावे प्रमाणविशेषमतिज्ञान भेदत्वासम्भवाद्वासनायाश्च विकल्पत्रयकवलितत्वानोक्तत्रयस्य मतिज्ञानभेदधारणारूपत्वमिति न मतिज्ञानस्य चतुर्विधत्वमिति शङ्कते । पृ. ८. पं. ११ नन्विति...तज्ज्ञानेति-स्मृतिज्ञानेत्यर्थः । पृ. ८. पं. १३ तद्वस्तुविकल्प इति-अपायविषयीभूतवस्तुनो विकल्पात्मकज्ञानमित्यर्थः। पृ. ८. पं. १३ तत्र-उक्तविकल्पत्रये । पृ. ८. पं. १३ आद्यपक्षद्वयम्-स्मृतिज्ञानावरणक्षयोपशमः संस्कार इति प्रथमपक्षः, तज्ज्ञानजननशक्तिः संस्कार इति द्वितीयपक्षश्च, अयुक्तत्वे हेतुमाह । पृ. ८ पं. १४ ज्ञानरूपत्वाभावादिति-स्मृतिज्ञानावरणक्षयोपशमस्मृतिज्ञानजननशक्त्योर्ज्ञानस्वरूपत्वासम्भवात्तद्विशेषमतिज्ञानविशेषधारणात्वासम्भवादित्यर्थः । पृ. ८. पं. १४ तङ्गेदानाम्-ज्ञानविशेषाणाम् । पृ. ८. पं. १५ तृतीयपंक्षोऽपि-तद्वस्तुविकल्पः संस्कार इति कल्पोऽपि, वस्तुविकल्पापेक्षया वासनालक्षणसंस्कारस्याधिककालस्थायित्वेन तयोरेक्यासम्भवादित्याह। पृ. ८. पं. १५ सङ्ख्येयमिति...एतावन्तं च कालं-वासनास्थित्याश्रयतया सम्मतयावत्कालं, गृहीतग्राहित्वादविच्युतेरप्रामाण्यं तदा स्याद्यदि गृहीतमात्राहिण्येव सा भवेत् , न चैवं, पूर्वकालविशिष्टं हि वस्तु अपायेन गृह्यते, उत्तरकालविशिष्टं चाविच्युत्या, एवं स्पष्ट-स्पष्टतर-स्पष्टतमत्वलक्षणाविभि
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy