SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः । च, अपायजन्यः स्मृतिहेतुर्यो भावनाग्व्यः संस्कारः स वासनेत्यर्थः। यद्यपि किश्चित्कालं सातत्येनानुवर्तमानस्यापायस्यैवाविच्युतिलक्षणधारणारूपतया तस्य स्वावरणकर्मक्षयोपशमेन स्वाधारजीवगतेन कालान्तरे उद्बोधकसमवहितेन भाव नाख्यसंस्कारात्मतामुपगतेन तदेवमित्याकारस्मृतिरूपेण यदुन्मीलनं तस्य स्मृतित्वेन तत्पूर्वभाविन्या अपायानन्तरभाविन्याश्च वासनाया तयोर्मध्य एव निरूपणमुचितमिनि द्वितीयभेदतया वासनायास्तृतीयभेदतया स्मृतेरभिधानं न्याय्यम् , तथापि अविच्युतिलक्षणधारणास्मृत्योस्स्वसंवेदनसिद्धतया स्मृतिम्प्रति अविच्युतिलक्षणधारणाया एवान्वयव्यतिरेकाम्यां कारणत्वस्यावधृततया, अपायस्योपेक्षा त्मकस्यापि सम्भवेनापायत्वस्यातिप्रसक्ततयोपेक्षानात्मकज्ञानमात्रस्य रूपाविच्युतिमात्रवृत्तित्वेनाविच्युतित्वस्य स्मृतिकारणतावच्छेदकत्वेन तेन रूपेण कारणी. भूताया अविच्युतेश्चिरंविनष्टायाः कालान्तरभाविनी स्मृतिम्प्रति कारणत्वन्न सम्भवतीत्येतदर्थं तद्वयापारतया वासनाकल्पनमिति स्मृत्यन्यथानुपपत्त्यैव वासनायाः कल्पनीयत्वेन तस्याः स्मृतिनिरूप्यत्वेन स्मृतिनिरूपणानन्तरं निरूपणन्नायुक्तमिति तृतीयभेदतया वासनानिरूपणमिति बोध्यम् । यद्यपि व्यञ्जनावग्रहार्थावग्रहेहाऽपायाविच्युतिस्मृतिवासनाभेदेन मतिज्ञानस्य सप्तविधत्वं, तथापि व्यञ्जनावग्रहार्थावग्रहयोरवग्रहत्वेनैक्यमविच्युतिस्मृतिवासनानां धारणात्वेनैक्यमभिसन्धाय मतिज्ञानस्य सांव्यवहारिकप्रत्यक्षरूपस्य चतुर्धा विभजनं सुसङ्गतमेवेत्याशयेनाह। पृ. ७. पं. २१ द्वयोरिति-व्यञ्जनार्यभेदेन द्विविधयोरित्यर्थः । पृ. ७. पं. २१ तिमृणामिति-अविच्युतिस्मृतिवासनाभेदेन त्रिविधानामित्यर्थः, न विभागव्याघात इति, मतिज्ञानस्य सप्तविधत्वे न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वासम्भवेन चतुर्धा विभजनस्य यो व्याघातः स नेत्यर्थः। व्युत्पत्यर्थाश्रयणेनापायधारणयोस्स्वरूपतो भेदमभ्युपगच्छतां मतं प्रतिक्षेप्तुमुपन्यस्यति । पृ. ७. पं. २३ केचित्त्विति-अस्य आहुरित्यनेनान्वयः, अपनयनमित्यादि-अनुसारिण इत्यन्तं केचिदित्यस्य विशेषणम् , अपनयनमपाय इति व्युत्पत्याश्रयणेन योऽर्थःपर्यवसितस्तमुपदर्शयति ।। पृ. ७. पं. २४ असदुद्भूतेति-अयं स्थाणुरितिज्ञाने नायं पुरुष इति ज्ञान
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy