SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९२ सनातनजैनग्रंथमालायां__ तात्पर्यवृत्तिः-उवओगे उपभोगो ज्ञानदर्शनोपयोगलक्षणत्वादभेदननात्मैवोपयोगस्तस्मिन्नुपयोगाभिधाने शुभात्मन्युपयोग आत्मा तिष्ठति कोहादिसु णत्थि कोवि उपभोगो शुद्धनिश्चयेन क्रोधादिपरिणामेषु नास्ति कोप्युपयोग आत्मा कोहे कोही चेव हि क्रोधे क्रोधश्चैव हि स्फुटं तिष्ठति उवओगे पत्थि खलु कोहो उपयोगे शुद्धात्मनि नास्ति खलु स्फुटं क्रोधः॥ ___ भविपणे कम्मे णोकम्म चावि णत्थि उवओगो तथैव चाष्टविधज्ञानावरणादिदव्यकर्मणि, भौदारिकशरारादिनोकर्मणि चैव नास्त्युपयोगः- उपयोगशब्दवाच्यः शुद्धबुद्धकस्वभावः परमात्मा उवओगलिय कम्मे णोकम्मे चापि णो अस्थि उपयोगे शुद्धात्मनि शुद्धनिश्चयेन कर्म नोकर्म चैव नास्ति इति। एदं तु भाववरीदं गाणं मइया दु हादि जीवस्म इदं तु चिदानंदैकस्वभावशुद्धात्मसंवित्तिरूपं विपरीताभिनिवेशरहितं भेदज्ञानं यदा भवति जीवस्य तझ्या ण किंचि कुवदि भावं उवओग सुद्धप्पा तस्माद्भेदविज्ञानात्स्वात्मोपलंभो भवति शुद्धात्मोपलंभे जाते किमपि मिथ्यात्वरागादिभावानः करोति न परिणमति । कथंभूतः सन् ? निर्विकारचिदानंदैकशुद्धोपयोगशुद्धात्मा शुद्धस्वभावः सन्निति । यत्रैवं भूतो संवरो नास्ति तत्राश्रयो भवत्यस्मिन्नधिकार सर्वत्र ज्ञातव्यमिति तात्पर्य । एवं पूर्वप्रकारेण भेदविज्ञानात शुद्धात्मोपलाभो भवति । शुद्धात्मोपलंभे सति मिथ्यात्वरागादिभाव न करोति ततो नवतरकर्मसंवरो भवतीति संक्षेपव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ कथं भेदज्ञानादेवं शुद्धात्मोपलंभो भवतीति पृच्छति मात्मख्यातिः-नखल्वेकस्य द्वितीयमस्ति द्वयोनिप्रदेशत्वेनैकसत्तानुपपत्तेस्तदऽसत्वे च तेन सहाधाराधेयसंबंधोऽपि नास्त्येव ततः स्वरूपप्रतिष्ठत्वलक्षण, एवाधाराधेयसंबंधोऽवतिष्ठते तेन ज्ञानं जानतायां स्वरूपे प्रतिष्ठितं । जानताया ज्ञानादपृथग्भूतत्वात् ज्ञाने एव स्यात् । क्रोधादीनि क्रुध्यतादौ स्वरूपे प्रतिष्ठितानि क्रुध्यतादेः क्रोधादेः पृथग्भूतत्वात्क्रोधादिष्वेव स्युः, न पुनः क्रोधादिषु कर्मणि नोकर्मणि वा ज्ञानमस्ति । नच ज्ञाने क्रोधादयः कर्म नोकर्म वा संति परस्परमत्यंतस्वरूपवैपरीत्येन परमार्थाधाराधेय संबंधशून्यत्वात् । नच ज्ञानस्य जानतास्वरूपं तथा क्रुध्यतादिरपि क्रोधादीनां च यथा क्रुध्यतादि स्वरूपं तथा जानतापि कथंचनापि व्यवस्थापयितुं शक्येत जानतायाः क्रुध्यतादेश्च भावभेदेनोद्भासमानत्वात् स्वभावभेदाच वस्तुभेद एवोत नास्ति ज्ञानाज्ञानयोराधाराधेयत्वं । किं च यदा किलैकमेवाकाशं स्त्रबुद्धिमधिरोप्याधाराधेयभावो विभाव्यते तदा शेषद्रव्यांतराधिरोपनिरोधादेव बुद्धेर्न भिन्नाधिकरणापेक्षा प्रभवति । तदप्रभवे चैकमाकाशमेवैकस्मिन्नाकाश एव प्रतिष्ठितं विधायतो न पराधाराधेयत्वं प्रतिभाति ततो ज्ञानमेव ज्ञाने एव क्रोधादय एव क्रोधादिष्वेवेति, साधु सिद्धं भेदविज्ञानं ॥ चैद्रूप्यं जड़रूपतां च दधतोः कृत्वा विभाग द्वयोरतारुणदारणेन परितो ज्ञानस्य रागस्य च । भेदज्ञानमुदेति निर्मलमिदं मोदध्वमध्यासिताः शुद्धज्ञानघनौघमेकमधुना संतो द्वितीयच्युताः ॥ एवमिदं भेदज्ञानं यदा ज्ञानस्य वैपरीत्यकणिकामप्यनासादयदबिचलितमवतिष्ठते तदा शुद्धोपयोगमयात्मत्वेन ज्ञानं ज्ञानमेव केवलं सन्न किंचनापि रागद्वेषमोहरूपं भावमारचयति ततो भेदविज्ञानाच्छुद्धात्मोपलंभः प्रभवति । शुद्धात्मोपलंभात् रागद्वेषमोहाभावलक्षणः संवरः प्रभवति । कथं भेदविज्ञानादेव शुद्धात्मोपलंभ ? इतिचेत् - जह कणय मग्गितवियं कणयसहावं ण तं परिचयंदि । तहकम्मोदयतविदो ण जहदि णाणी दु णाणित्तं ॥१७७॥ एवं जाणदि णाणी अण्णाणी मुणदि रागमेवादं । अण्णाणतमोच्छण्णो आदसहावं अयाणतो ॥१७॥
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy