SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सनातननग्रंथमालायांजह णवि सक्कमणजो अणजभासं विणा दु गाहेदु । तह ववहारेण विणा परमत्थुवदेसणमसकं ॥८॥ यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुं । तथा व्यवहारेण विना परमार्थोपदेशनमशक्यं ॥८॥ तात्पर्यवृत्तिः-जह णवि सक्कं यथा न शक्यः कोसौ अणज्जो अनार्यो म्लेच्छः । किं कर्तुं गाहेदं अर्थग्रहणरूपेण संबोधयितुं । कथं अणज्जभासं विणा अनार्यभाषा म्लेच्छभाषा तां विना । दृष्टांतो गतः । इदानीं दार्टीतमाह-तह तथा ववहारेण विणा व्यवहारनयं विना परमत्थुवदेसणमसकं परमार्थोपदेशनं कर्तुमशक्यं इति । अयमत्राभिप्रायः । यथा कश्चिद्राह्मणो यतिर्वा म्लेच्छपल्ल्यां गतः तेन नमस्कारे कृते सति ब्राह्मणेन यतिना वा स्वस्तीति भणिते स्वस्त्यर्थमविनश्वरत्वमजानन्सन् निरीक्ष्यते मेष इव । तथायमज्ञानिजनोप्यात्मतिभाणते सत्यात्मशब्दस्यार्थमजानन्सन् भ्रांत्या निरीक्ष्यत एव । यदा पुन निश्चयव्यवहारज्ञपुरुषेण सम्यग्दर्शनज्ञानचारित्राणि जीवशब्दस्यार्थ इति कथ्यते तदा संतुष्टो भूत्वा जानातीति । एवं भेदाभेदरत्नत्रयव्याख्यानमुख्तया गाथाद्वयेन द्वितीयं स्थलं गतं ॥८॥ अथ पूर्वगाथायां भणितव्यवहारण परमार्थों ज्ञायते ततस्तमेवार्थ कथयति आत्मख्यातिः-यथा खलु म्लेच्छः स्वस्तीत्यभिहिते सति तथाविधवाच्यवाचकसंबंधावबोधबहिष्कृ तत्वान्न किंचदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव । यदा तु स एव तदेतद्भाषासंबंधैकार्थज्ञेनान्येन तेनैव वा म्लेच्छभाषां समुदाय स्वस्तिपदस्याविनाशो भवतो भवत्वित्यभिधेयं प्रतिपाद्यते तदा सद्यएवोद्यदमंदानंदमयाश्रुजलझलज्झललोचनपात्रस्तत्प्रतिद्यत एव । तथा किल लोकोप्यात्मेत्यभिहि ते सति यथावस्थितात्मस्वरूपपरिज्ञानवहिष्कृतत्वान्न किंचदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव । यदा तु स एव व्यवहारपरमार्थपथप्रस्थापितसम्यग्बोधमहारथरथिनान्येन तेनैव वा व्यवहारपथमास्थाय दर्शनज्ञानचारित्राण्यततीत्यात्मेत्यात्मपदस्थाभिधेयं प्रतिपाद्यते तदा सद्य एवोद्यदमंदानंदतः सुंदरबंधुरबोधतरंगस्तत्प्रतिपद्यत एव । एवं म्लेच्छभाषास्थानीयत्वेन परमार्थप्रतिपादकत्वादुपन्यसनीयोऽथ च ब्राह्मणो न म्लेच्छितव्य इति वचनाद्व्यवहारनयो नानुसतव्यः।।८॥कथं व्यवहारस्य प्रतिपादकत्वमिति चेत् । जो हि सुदेणभिगच्छदि अप्पाणमिणं तु केवलं सुद्धं । तं सुदकेवलिमिसिणो भणंति लोगप्पदीवयरा ॥९॥ जो सुदणाणं सव्वं जाणदि सुदकेवलिं तमाहु जिणा। णाणं अप्पा सव्वं जमा सुदकेवली तह्मा ॥१०॥ यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धं । तं श्रुतकेवलिनमृषयो भणंति लोकप्रदीपकराः ॥९॥ यः श्रुतज्ञानं सर्व जानाति श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्व यस्माच्छुतकेवली तस्मात् ॥१०॥ तात्पर्यवृत्तिः-जो यः कर्ता हि स्फुटं सुदेण भावश्रुतेन स्वसंवेदनज्ञानेन निर्विकल्पसमाधिना करणभूतेन आभिगच्छदि अभि समंताज्जानात्यनुभवति कं अप्पाणं आत्मानं इणं इमं प्रत्यक्षीभूतं तु पुनः किं विशिष्टं केवलं असहायं सुद्धं रागादिरहितं तं पुरुषं सुदकेवलिं निश्चयश्रुतकेवलिनं इसिणो परम ऋषयः भणंति कथयति लोगप्पदीवयरा लोकप्रदीपकराः लोकप्रकाशका इति । अनया गाथया निश्च
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy