SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समयप्रावृत्तं । जाणमओ णाणिस दुण कुणदि तमा दु कम्माणि ज्ञानिनस्तु निर्विकारचिच्चमत्कारभावनावशेन ज्ञानमयो भवति तस्माद् ज्ञानमयभावात् ज्ञानी जीवः कर्माणि न करोतीति । किं च यथा स्तोकोप्यग्निः तृपाकाष्ठराशिं महांतमपि क्षणमात्रेण दहति । तथा त्रिगुप्तिसमाधिलक्षणो भेदज्ञानाग्निरंतर्मुहूर्तेनापि वहुभवसंचितं कर्मराशिं दहतीति ज्ञात्वा सर्वतात्पर्येण तत्रैव परमसमाधौ भावना कर्तव्येति भावार्थः। अथ ज्ञानमय एव भावो भवति ज्ञानिनो जीवस्य न पुनरज्ञानमयस्तथैवाज्ञानमयएवं भवत्यज्ञानिजीवस्य न पुननिमयः किमर्थमिति चेत् ।। ___ आत्मख्यातिः-अज्ञानिनो हि सम्यक्स्वपरविवेकाभावेनात्यंतप्रत्यस्तमितविधिक्तात्मख्यातित्वाद्यस्मादज्ञानमय एव स्यात् तस्मिंस्तु सति स्वपरयोरेकत्वाध्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिताहंकारः स्वयं किलैषोहं रज्ये रुष्यामीति रज्यते रुष्यति च तस्मादज्ञानमयभावादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि । ज्ञानिनस्तु सम्यक्स्वपरविवेकेनात्यंतीदिंतविविक्तात्मख्यातित्वायस्माद् ज्ञानमय एव भावः स्यात् तस्मिंस्तु सति स्वपरयो नात्वविज्ञानेन ज्ञानमात्रे स्वस्मिन्सुनिविष्टः पराभ्यां रागद्वेषाभ्यां पृथग्भूततया स्वरसतएव निवृत्ताहंकारः स्वयं किल केवलं जानात्येव न रज्यते न च रुष्यति तस्माद्वानमयाद्भावात् ज्ञानी परौ रागद्वेषावात्मानमकुर्वन्न करोति कर्माणि। ज्ञानमयएव भावः कुतो भवेद्हानिनो न पुनरन्यः । अज्ञानमयः सर्वः कुतोयमज्ञानिनो नान्यः ॥ णाणमया भावाओ णाणमओ चेव जायदे भावो । जम्हा तम्हा णाणिस्स सब्वे भावा दु णाणमया ॥१३०॥ अण्णाणमया भावा अण्णाणो चेव जायए भावो । जम्हा तम्हा भावा अण्णाणमया अणाणिस्स ॥१३९॥ ज्ञानमयाद्भावाद्ज्ञानमयश्चैव जायते भावः । यस्मात्तस्माज्ज्ञानिनः सर्वे भावाः खलु ज्ञानमयाः ॥१३८॥ अज्ञानमयाद्भावादज्ञानश्चैव जायते भावः । यस्मात्तसादावादज्ञानमया अज्ञानिनः ॥१३९॥ । तात्पर्यवृत्तिः-णाणमयाभावाओ णाणमओ चेव जायदे भावो जमा ज्ञानमया भाषा निश्चयरत्नत्रयात्मकजीवपदार्था ज्ञानमय एव जायते भावः स्वयुद्धात्मावाप्तिलक्षणो मोक्षपर्यायो यस्मात्कारणात् तमा गाणिस्स सव्वे भावा दु णाणमया तस्मात्कारणात्स्वसंवेदनलक्षणभेदज्ञानिनो जीवस्य सर्वे भावाः परिणामज्ञानमया ज्ञानेन निर्वृत्ता भवंति तदपि कस्मात् उपादनकारणसदृशं कार्य भवतीति वचनात् नहि यवनालबीजे वपिते राजान्नशालिफलं भवतीति तथैव च-अण्णाणमया भावा अण्णाणो चेव जायए भावो अज्ञानमयाद्भावाजीवपदार्थात् अज्ञानमय एव जायते भावः पर्यायो यस्मात्कारणात् तमा सन्चे भावा अण्णाणमया अणाणिस्स यतः एवं तस्मात्कारणात्सर्वे भावाः परिणामा अज्ञानमया मिथ्यात्वरागादिरूपा भवंति । कस्य अज्ञानिनः शुद्धात्मोपलब्धिरहितस्य मिथ्यादृष्टेर्जीवस्येति । अथ तदेव व्याख्यानं दृष्टांतदार्टीताभ्यां समर्थयति । - आत्मख्यातिः यतोह्यज्ञानमयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोप्यज्ञानमयत्वमनतिवर्तमानोऽज्ञानमयएव स्वात् ततः सर्व एवाज्ञानमया अज्ञानिनो भावाः । यतश्च ज्ञानमयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोपि ज्ञानमयत्वमनतिवर्तमानो ज्ञानमय एव स्यात् ततः सर्वे एव ज्ञानमया ज्ञानिनो भावाः । __ ज्ञानिनो ज्ञाननिर्वृत्ताः सर्वे भावा भवंति हि । सर्वेप्यज्ञाननिर्वृत्ताः भवंलबानिनस्तु ते ॥६६॥ अथैतदेव दृष्टांतेन समर्थयते।
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy