SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ समयप्राभृतं । यस्यापि कर्ता भवतीति पूर्व संक्षेपेण सूचितं जइया इमेण जीवेण आदा स वाण दोण्हंपि । णादं होदि विसेसंतरं तु इत्यादिगाथाचतुष्टये ज्ञानीजीवस्वरूपं च संक्षेपेण सूचितं स च ज्ञानी जीवः शुद्धोपयोगभावपरिणतोऽभेदरत्नत्रयलक्षणेनाभेदज्ञानेन यदा परिणमति तदा निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिभूत्वा संवरनिर्जरामोक्षपदार्थानां त्रयाणां कर्ता भवतीत्यपि संक्षेपेण निरूपितं पूर्व निश्चयसम्यक्त्वस्याभावे यदा तु सरागसम्यक्त्वेन परिणमति तदा शुद्धात्मानमुपादेयं कृत्वा परंपरया निर्वाणकारणस्य तीर्थकरप्रकृत्यादि पुण्यपदार्थस्यापि कर्ता भवतीत्यपि पूर्व निरूपितं तत्सर्वं जीवपुद्गलयोः कथंचित्परिणामित्वे सति भवतीति तत्कथंचित्परिणामित्वमपि पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थं पूर्वमेव संक्षेपेण निरूपितं । पुनश्च जीवपुद्गलपरिणामित्वव्याख्यानकाले विशेषेण कथितं । तत्रैवं कथंचित्परिणामित्वे सिद्धे सति अज्ञानिज्ञानिजीवयोः गुणिनोः पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थ संक्षेपव्याख्यानं कृतं । इदानीं पुनरज्ञानमयगुणज्ञानमयगुणयोः मुख्यत्वेन व्याख्यानं क्रियते । नच जीवाजीवगुणमुख्यत्वेनेति । किमर्थमिति चेत् ! त तेषामेव पुण्यपापा दसप्तपदार्थानां संक्षेपसूचनार्थमिति । तत्र जो संगं तु मुइता इत्यादिगाथामादि कृत्वा पाठक्रमेण गाथानवकपर्यंत व्याख्यानं करोति । तत्रादौ गाथात्रयं ज्ञानभावमुख्यत्वेन तदनंतरं गाथाषटुं ज्ञानिजीवस्य ज्ञानमयो भावो भवत्यज्ञानिजीवस्याज्ञानमयो भावो भवतीति मुख्यत्वेन कथ्यत इति षष्ठांतराधिकारे समुदायपातनिका । तद्यथा-कथंचित्परिणामित्वे सिद्धे सति ज्ञानी जीवो ज्ञानमयस्य भावस्य कर्ता भवतीत्यभिप्रायं मनसि संप्रधाउँदं सूत्रत्रयं प्रतिपादयति । जो संगं तु मुइत्ता जाणदि उवओगमप्यगं सुद्धं । तं णिसंगं साहुं परमवियाणया विति ॥१३३॥ यः संगं तु मुक्त्वा जानाति उपयोगमयकं शुद्धं । तं निस्संगं साधुं परमार्थविज्ञायका विदंति ॥१३३॥ तात्पर्यवृत्तिः-जो संगं तु मुइत्ता जाणदि उवओग मप्पयं सुद्धं यः परमसाधुर्बाह्याभ्यंतरपरिग्रहं मुक्त्वा वीतरागचारित्राविनाभूतभेदज्ञानेन जानात्यनुभवति । कं कर्मतापन्नं आत्मानं । कथं भूतं विशुद्धज्ञानदर्शनोपयोगस्वभावत्वादुपयोगस्तमुपयोगं ज्ञानदर्शनोपयोगलक्षणं । पुनरपि कथं भूतं । शुद्धं भावकर्म द्रव्यकर्म नोकर्मरहितं । तं णिस्संग साहुं परमहवियाणया बिंति तं साधुं निस्संग संगरहितं . विदंति जानंति ब्रुवंति कथयति वा । के ते परमार्थविज्ञायका गणधरदेवादय इति । जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं । तं जिदमोहं साहुं परमहवियाणया विति ॥१३४॥ यः मोहं तु मुक्त्वा ज्ञानस्वभावाधिकं मनुते आत्मानं । तं जितमोहं साधुं परमार्थविज्ञायका विदंति ॥१३४॥ तात्पर्यवृत्तिः- जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं यः परमसाधुः कर्ता समस्तचेतनाचेतनशुभाशुभपरद्रव्येषु मोहं मुक्त्वात्मशुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभदरत्नत्रयलक्षणेन भेदज्ञानेन मनुते जानाति कं कर्मतापन्नं आत्मानं, किं विशिष्ठं ? निर्विकारस्वसंवेदनज्ञा- . नेनाधिकं परिणतं परिपूर्ण । तं जिदमोह साहं परमवियाणया विति तं साधुं कर्मतापन्नं जितमोहं निर्मोहं विदंति जानंति । के ते ? परमार्थविज्ञायकास्तीर्थकरपरमदेवादय इति । एवं मोहपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायबुद्ध्यदयशुभाशुभपरिणामश्रोत्रचक्षुर्घाणजिह्वास्पर्शनसंज्ञानि विंशति सूत्राणि व्याख्येयानि । तेनैव प्रकारेण निर्मलपरमचिज्ज्योतिः परिणतेविलक्षणासंख्येयलोकमात्रविभावपरिणामा ज्ञातव्याः । अथ
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy