SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ समयप्राभूतं । तात्पर्यवृत्तिः - जीवम्हि हेदुभूदे बंधस्स दु पस्सिदूण परिणामं परमोपेक्षसंयमभावनापरिणताभेदरनत्रयलक्षणस्य भेदज्ञानस्याभावे मिध्यात्वरागादिपरिणतिनिमित्तहेतुभूते जीवे सति मेघाडंबरचंद्रार्कपरिवेषादियोग्यकाले निमित्तभूते सति मेघेंद्रचापादिपरिणतपुद्गलानामिव कर्मवर्गणायोग्यपुद्गलानां ज्ञानावरणादिरूपेण द्रव्यकर्मबंधस्य परिणामं पर्यायं दृष्ट्वा जीवेण कदं कम्मं भण्णदि उवयारमत्तेण जीवेन कृतं कर्मेति भण्यते उपचारमात्रेणेति । अथ तदेवोपचारकर्मकर्तृत्वं दृष्टांतदाष्टताभ्यां दृढयति । ६३ आत्मख्यातिः - इह खलु पौद्गलिककर्मणः स्वभावादनिमित्तभूतेप्यात्मन्यनादेरज्ञानात्तन्निमित्तभूतेनाज्ञानभावेन परिणमनान्निमित्तीभूते सति संपद्यमानत्वात् पौद्गलिकं कर्मात्मनाकृतमिति निर्विकल्प - विज्ञानघनभ्रष्टानां विकल्पपराणां परेषामस्ति विकल्पः । स तूपचारएव न तु परमार्थः । कथं इति चेत् । जोधेहि कदे जुद्धे राएण कदंति जं पदे लोगो । तह ववहारेण कदं णाणावरणादि जीवेण ॥ ११३॥ योधैः कृते युद्धे राज्ञाकृतमिति जल्पते लोकः । व्यवहारेण तथा कृतं ज्ञानावरणादि जीवेन ॥ १९३॥ तात्पर्यवृत्तिः - जोधेहि कदे जुड़े राएण कदंति जंपदे लोगो यथा योधैः युद्धे कृते सति राज्ञा युद्धं कृतमिति जल्पति लोकः । तह बवहारेण कदं णाणावरणादि जीवेण तथा व्यवहारनयेन कृतं भण्यते ज्ञानावरणादिकर्म जीवेनेति । ततः स्थितमेतत् । यद्यपि शुद्धनिश्चयनयेन शुद्धबुद्धैकस्वभावत्वान्नोत्पादयति न करोति न वध्नाति न परिणमयति न गृह्णाति च तथापि । आत्मख्यातिःतेः --- यथा युद्धपरिणामेन स्वयं परिणममानैः योधैः कृते युद्धे युद्धपरिणामेन स्वयमपरिणममानस्य राज्ञो राज्ञा किल कृतं युद्धमित्युपचारो न परमार्थः । तथा ज्ञानावरणादिकर्मपरिणामेन स्वयं परिणममानेन पुद्गलद्रव्येण कृते ज्ञानावरणादिकर्माणि ज्ञानावरणादिकर्मपरिणामेन स्वयमपरिणममानस्यात्मनः किलात्मना कृतं ज्ञानावरणादिकर्मेत्युपचारो न परमार्थः । अत एतत्स्थितं । उप्पादेदि करेदि य बंधदि परिणामपदि गिण्हदि य । आदा पुग्गलदव्वं ववहारणयस्स वत्तव्वं ॥ ११४॥ उत्पादयति करोति च बध्नाति परिणमयति गृह्णाति च । आत्मा पुद्गलद्रव्यं व्यवहारनयस्य वक्तव्यं ॥ ११४|| तात्पर्यवृत्तिः—अनादिबंधपर्यायवशेन वीतरागस्वसंवेदनलक्षणभेदज्ञानाभावात् रागादिपरिणामस्निग्धः सन्नात्मा कर्मवर्गणायोग्यपुद्गलद्रव्यं कुंभकारो घटमिव द्रव्यकर्मरूपेणोत्पादयति करोति स्थितिबंधं वनात्यनुभागबंधं परिणमयति प्रदेशबंधं तप्तायः पिंडो जलवत्सर्वात्मप्रदेशैर्गृह्णाति चेत्यभिप्रायः । अथैतदेवव्याख्यानं दृष्टांतदाताभ्यां समर्थयति । आत्मख्यातिः - अयं खल्वात्मा न गृह्णाति न परिणमयति नोत्पादयति न करोति न बध्नाति व्याप्यव्यापकभावाभावात् । प्राप्यं विकार्यं निर्वर्त्यं च पुद्गलद्रव्यात्मकं कर्म यत्तु व्याप्यव्यापकभावाभावेपि प्राप्यं विकार्य निर्वर्यं च पुद्गलद्रव्यात्मकं कर्म गृह्णाति परिणमयत्युत्पादयति करोति बध्नाति वात्मेति बिकल्पः स किलोपचारः । कथमिति चेत् । जह राया ववहारा दोसगुणुप्पादगोति आलविदो । तह जीवो ववहारा दव्वगुणुप्पादगो भणिदो ॥११५॥
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy