SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५६ सनातनजैनग्रंथमालायांपुद्गलपरिणामावस्थाया इव पुद्गलादिभिन्नत्वेनात्मनो नित्यमेवात्यंतभिन्नायास्तनिमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्य ज्ञानात्परस्परविशेषनिर्ज्ञाने सति नानात्वविवेकाच्छीतोष्णरूपेणैवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्ममा मनागप्यपरिणममानो ज्ञानस्य ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूतः एषोहं जानाम्येव, रज्यते तु पुद्गल इत्यादिविधिना समप्रस्यापि रागादेः कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति । कथमज्ञानात्कर्म प्रभवतीति चेत् । तिविहो एसुवओगो अस्सवियप्पं करेदि कोधोहं । कत्ता तस्सुवओगस्स होदि सो अतभावस्स ॥१०१॥ त्रिविध एष उपयोग आत्मविकल्पं करोति क्रोधोहं । कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ।।१०।। तात्पर्यवृत्तिः- तिविहो एसुव ओगो त्रिविधस्त्रिप्रकार एष प्रत्यक्षीभूत उपयोगलक्षणत्वादुपयोग आत्मा अस्सवियप्यं करेदि स्वस्थभावस्याभावादसद्विकल्पं मिथ्याविकल्पं करोति । केन रूपेण कोधोहं क्रोधोहमित्यादि कत्ता तस्सुवओगस्स होदि सो स जीवः तस्य क्रोधाद्युपयोगस्य विकल्पस्य कर्ता भवति। कथंभूतस्य अत्तभावस्स आत्मभावस्याशुद्धनिश्चयेन जीवपरिणामस्येति । तथाहि सामान्येनाज्ञानरूपेगैकविधोपि विशेषेण मिथ्यादर्शनज्ञानचारित्ररूपेण त्रिविधो भूत्वा एष उपयोग आत्मा क्रोधाद्यात्मनो - व्यभावकभावापन्नयोः । भाव्यभावकभावापन्नयोः कोर्थः ? भाव्यः क्रोधादिपरिणत आत्मा, भावको रंजकश्वांतरात्मभावनाविलक्षणो भावक्रोधः । इत्थंभूतयोयो र्दज्ञानाभावाद्भदेमजानान्नीर्वकल्पस्वरूपाद् भ्रष्टः सन् क्रोधोहमित्यात्मनो विकल्पमुत्पादयति, तस्यैव क्रोधाद्युपयोगपरिणामस्याशुद्धनिश्चयेन कर्ता भवतीति भावार्थः । एवमेव च क्रोधपदपरिवर्त्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि अनेन प्रकारेणाविक्षिप्तचित्तस्वभावशुद्धात्मसत्त्वविलक्षणा असंख्येयलोकमात्रप्रमिता विभावपरिणामा ज्ञातव्या इति । अथ-- आत्मख्यातिः-एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिणामः परात्मनोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषविरत्या च समस्तं भेदमपहत्य भाव्यभावकभावापन्नयोश्चेतनाचेतनयोः सामान्याधिकरण्येनानुभवनात्क्रोधोहमित्यात्मनो विकल्पमुत्पादयति । ततोयमात्मा क्रोधोहमितिभ्रांत्या सविकारेण चैतन्यपरिणामेन परिणमन् तस्य सविकारचैतन्यपरिणामरूपस्यात्मभावस्य कर्ता स्यात् । एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकायश्रोत्रचक्षु_णरसनस्पर्शनसूत्राणि षोडश व्याख्येयान्यनया दिशान्यान्यप्यूह्यानि ।। तिविहो एसुवओगो अस्सवियप्पं करेदि धम्मादि । कत्ता तस्सुवओगस्स होदि सो अत्तभावस्स ॥१०२॥ त्रिविध एष उपयोग आत्मविकल्पं करोति धमोदिकं । कतों तस्योपयोगस्य भवति स आत्मभावस्य ॥१०२॥ तात्पर्यवृत्तिः-तिविहो एसुवओगो सामान्येनाज्ञानरूपेणैकविधोपि विशेषेण मिथ्यादर्शनज्ञानचारित्ररूपेण त्रिविधः सन्नेष उपयोग आत्मा अस्सवियप्पं करेदिधम्मदि परद्रव्यात्मनोईयज्ञायकभावापन्नयोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषपरिणत्या च भेदज्ञानाभावाद्भेदमजानन् धर्मास्तिकायोहामत्याद्यात्ममोऽसद्विकल्पमुत्पादयति । कत्ता तस्सुवओगस्स होदि सो अत्तभावस्स निर्मलात्मानुभूतिराहितस्वस्यैव मिथ्याविकल्परूपजीवपरिणामस्याशुद्धनिश्चयेन कर्ता भवति । ननु धर्मास्तिकायोहमित्यादि कोपि न घेते
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy