SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ समयप्राभृतं । जय हुंति तस्स ताणिदु उवओग गुणाधिगो जम्हा ॥२॥ एतैश्च संबंधो यथैव क्षीरोदकं ज्ञातव्यः । न च भवंति तस्य तानि तूपयोगगुणाधिको यस्मात् ॥ ६२ ॥ तात्पर्यवृत्तिः-एदेहि य संबंधो जहेव खीरोदयं मुणेदवो एतैः वर्णादिगुणस्थानांतैः पूर्वोक्तायायैः सह संबंधो यथैव क्षीरनीरसंश्लेषस्तथा मंतव्यः । न चान्युष्णत्वयोरिव तादात्म्यसंबंधः । कुत इति चेत् ण य हुंति तस्स ताणि दु नच भवंति तस्य' जीवस्य ते तु वर्णादिगुणस्थानांता भावाः पर्यायाः कस्मात् उवओगगुणाधिगो जम्हा यस्मादुष्णगुणेनाग्निरिव केवलज्ञानदर्शनगुणेनाधिकः परिपूर्ण इति । ननु वर्णादयो बहिरंगास्तत्र व्यवहारेण क्षीरनीरवत्संश्लेषसंबंधो भवतु नचाभ्यंतराणां रागादीनां तत्राशुद्धनिश्चयेन भवितव्यमिति । नैवं द्रव्यकर्मबंधापेक्षया योसौ असद्भूतव्यवहारस्तदपेक्षया तारतम्यज्ञापनार्थ. रागादीनामशुद्धनिश्चयो भण्यते । वस्तुतस्तु शुद्धनिश्चयापेक्षया पुनरशुद्धनिश्चयोपि व्यवहार एवेति भावार्थः । अथ तर्हि कृष्णवर्णोयं धवलवर्णोयं पुरुष इति व्यवहारो विरोध प्राप्नोतीत्येवं पूर्वपक्षे कृते सति व्यवहाराविरोध. . दर्शयतीत्येका पातनिका । द्वितीया तु तस्यैव पूर्वोक्तव्यवहारस्य विरोधं लोकप्रसिद्धदृष्टांतद्वारेण परिहरति । __ आत्मख्याति:-यथा खलु सलिलमिश्रितस्यः क्षीरस्य सलिलेन सह परस्परावगाहलक्षणे संबंधे सत्यपि स्वलक्षणभूतक्षीरत्वगुणव्याप्यतया सलिलादधिकत्वेन प्रतीयमानत्वादग्नेरुष्णगुणेनेव सह तादात्म्यलक्षणसंबंधाभावान्न निश्चयेन सलिलमस्ति । तथा वर्णादिपुद्गलद्रव्यपरिणाममिश्रितस्यास्यात्मनः पुद्गलद्रव्येण सह परस्परावगाहलक्षणेः संबंधे सत्यपि स्वलक्षणभूतोपयोगगुणव्याप्यतया सर्वद्रव्येभ्योधिकत्वेन प्रतीयमानत्वात् अग्नेरुष्णगुणेनेव सह तादात्म्यलक्षणसंबंधाभावान्न निश्चयेन वर्णादिपुद्गलपरिणामाः संति। कथं तर्हि व्यवहासे विरोधक इति चेत् । पंथे मुस्संतं पस्सिदूण लोगा भणति ववहारी । मुस्सदि एसो पंथो णय पंथो मुस्सदे कोई ॥६३॥ तह जीके कम्माणं णोकम्माणं च पस्सिदुं वण्णं । जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो ॥६४॥ एवं रसगंधफासा संठाणादीय जे समुदिहा। सब्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ॥६५॥ पथि मुष्यमाणं दृष्ट्वा लोका भणंति व्यवहारिणः। मुष्यते एष पंथा न च पंथा.मुष्यते कश्चित् ।। ६३॥ तथा जीके कर्मणा नोकर्मणां च दृष्य वर्ण । जीवस्यैष वर्णो जिनैर्व्यवहारत उक्तः ॥१४॥ एवं गंधरसस्पर्शरूपाणि देहः संस्थानादयो ये च । । सर्वे व्यवहारस्य च निश्चयदृष्टारो व्युपदिशति ॥६५॥ तात्पर्यवृत्तिः-पंथे मुस्संतं पस्सिद्ग लोगा भणंति ववहारी पथि मार्गे मुष्यमाणं सार्थ दृष्ट्वा व्यवहारिलोका भणंति किं भणंति मुस्सदि एसों पंथो मुष्यत एषः प्रत्यक्षीभूतः पंथाश्चौरैः कर्तृभूतैः णय पंथो मुस्सदें कोई नच विशिष्टशुद्धाकाशलक्षणः पंथा मुष्यते कश्चिदपि किंतु पंथानमाधारीकृत्य १ आत्मख्यातौ न ‘एवं गंधरसफासरूवादहोसठाणमाइया जे य' इतिः पाठः ।।
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy