SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ समयप्राभृतं । अह जीवो पयडी विय पोग्गलदव्वं कुणंति मिच्छंत्तन तह्मा दोहिकदत्तं दोण्णिवि भुंजति तस्स फलं ॥ ३६४ ॥ अह ण पयडी ण जीवो पोग्गलदव्वं करेदि मिच्छत्तं । तमा पोग्गलदव्वं मिच्छत्तं तंतु णहु मिच्छा ॥ ३६५ ॥ मिथ्यात्वं यदि प्रकृतिमिथ्यादृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिननु कारकः प्राप्तः ॥ ३६१ ।। सम्यकत्वं यदि प्रकृतिः सम्यग्दृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारकः प्राप्तः ॥ ३६२ ॥ अथवैषः जीवः पुद्गलद्रव्यस्य करोति मिथ्यात्वं । ' तस्मात्पुद्गलद्रव्यं मिथ्यादृष्टिर्न पुनर्जीवः ॥ ३६३ ।। अथ जीवः प्रकृतिरपि पुद्गलद्रव्यं कुरुते मिथ्यात्वं । तस्माद्याभ्यां कृतं द्वावपि भुंजाते तस्य फळ ॥ ३६४ ॥ अथ न प्रकृतिनं च जीवः पुद्गलद्रव्यं करोति मिथ्यात्वं । तस्मात्पुद्गलद्रव्यं मिथ्यात्वं तत्तु न खलु मिथ्या ॥३६५॥ पंचकलं । तात्पर्यवृत्तिः-मिच्छता जदि पपडी मिच्छादिही करेदि अप्पाणं द्रव्यमिथ्यात्वप्रकृतिः कर्ता यद्यात्मानं स्वयमपरिणामिनं हठान्मिथ्यादृष्टिं करोति तह्मा अचेदणादे पपडी गणु करगो पत्तो तस्मात्कारणादचेतना तु या द्रव्यमिथ्यात्वप्रकृतिः सा तव मते नन्वहा भावमिथ्यात्वस्य की प्राप्ता जीवश्चैकांतेनाकर्ता प्राप्तः। ततश्च कर्मबंधाभावः, कर्मबंधाभावे संसाराभावः । सच प्रत्यक्षविरोधः । सम्मत्ता जदि पपड़ी सस्मादिही करेदि अप्पाणं सम्यक्त्वप्रकृतिः कर्ची यद्यात्मानं स्वयमपरिणामिनं सम्यग्दृष्टिं करोति तमा अचेदणादे पयडी णणु कारगो पत्तो तस्मात्कारणात अचेतना प्रकृतिः दे तव मते नन्वहो की पश्चैकांतन सम्यक्त्वपरिणामस्याकतति ततश्च वेदकसम्यक्त्वाभावो वेदकसम्यक्त्वाभावे क्षायिकसम्यक्त्वाभावः स च प्रत्यक्षविरोध आगमावरोधश्च । अत्राह शिष्यः-प्रकृतिस्तावत्कर्मविशेषः सच सम्यक्त्वमिथ्यात्वतदुभयरूपस्य त्रिविधदर्शनमोहस्य सम्यक्त्वाख्यः प्रथमविकल्पः सच कर्मविशेषः कथं सम्यक्त्वं भवति । सम्यक्त्वं तु निर्विकारसदानंदैकलक्षणपरमात्मतत्त्वादिश्रद्धानरूपो मोक्षबीजहेतुर्भव्यजीवपरि. णाम इति । परिहारमाह-सम्यक्त्वप्रकृतिस्तु कर्मविशेषोभवति तथापि यथा निर्विषीकृत विषं मरणं न करोति तथा शुद्धात्माभिमुख्यपरिणामेन मंत्रस्थानीयविशुद्धिविशेषमात्रेण विनाशितमिथ्यात्वशक्तिः सन् क्षायोपशामकादिलब्धिपंचकजानतप्रथमोपामिकसम्यक्त्वानंतरोत्पन्नवेदकसम्यक्त्वस्वभावं तत्त्वार्थश्रद्धानरूपं जीवपरिणामं न हंति तेन कारणेनोपचोरण सम्यक्त्वहेतुत्वात्कर्मविशेषोऽपि सम्यक्त्वं भण्यते स च तीर्थकरनामकर्मवत् परंपरया मुक्तिकारणं भवतीति नास्ति दोषः । अहवा एसो जीवो पुग्गलदव्वस्स कुणदि मिच्छत्तं अथवा पूर्वदूषणभयादेष प्रत्यक्षीभूतोजीवः, द्रव्यकर्मरूपस्य पुद्गलद्रव्यस्य शुद्धात्मतस्वादिषु विपरीताभिनिवेषजनकं भावमिथ्यात्वं करोति, न पुनः स्वयं भावमिथ्यात्वरूपेण परिणमति इति मतं तमा पुग्गलदव्वं मिच्छादिही ण पुण जीवो तहर्ये कांतेन पुद्गलद्रव्यं मिथ्यादृष्टिर्न पुनर्जीवः । कर्मबंधः तस्यैव, संसारोऽपि तस्यैव, नच जीवस्य, स च प्रत्यक्ष विरोध इति । अह जीवोपपर्ड पिय पुग्गलदव्वं कुणंति मिच्छत्तं अथ पूर्वदूषणभयाज्जीवः प्रकृतिरपि पुद्गलद्रव्यं कर्मतापन्नं भावमिथ्यात्वं कुरुतइति मतं तह्मा दोहि कदत्तं तस्मात्कारणाजीवपुद्गलाभ्यामुपादानकारणभूताभ्यां कृतं तन्मिथ्यात्वं । प्राप्ता
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy