SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भगवत्कुंदकुंदाचार्यः। स्थानं । श्रुतावतारलेखतः समनुभूयते-समभूद्भगवान् कुंदकुंदः संभाव्यमानकर्णाटकप्रांतांतर्गतकोण्डकण्डपु. रे । यदा भद्रबाहुस्वामिसमानकालीनः समजनि गरीयान्दुष्कालस्तदा, अगाद्विशालसंघो मुनीनां मुनिवरभद्रबाहुणा समं कर्णाटकदेशं । समजनि च तदात्वे चारित्रशैथिल्यादत्र श्वेतांबरदिगंबरविभागः । विनिर्धार्यते संजायमाने किल भेदद्वये दिगंबराचार्यैदक्षिणकर्णाटकदेशः श्वेतांबरैश्च गुर्जरः, उत्तरभारतश्च विचक्रे स्वीयं प्रधानस्थलं । कियस्कालप्रागेवास्माद्भेदात्समजनि श्रीकुंदकुंदभगवान् । अतः कर्णाटकप्रांत एव नियतमेतनिवासस्थलं विभाव्यते। श्रीमत्कुंदकुंदशिष्या गुणनंदिदेवेद्रादयोऽपि कर्णाटकप्रांत एव समभूवन्नतोऽपि भगवान् कुदकुदः कर्णाटकप्रांतस्थ एव विनिश्चीयते पांगलगोत्रोद्भवश्रीमपंडिततात्यानेमिनाथमहोदयैर्विलिखिता काचित्कुंदकुंदाचार्यविषयिणी कथा ज्ञानप्रबोधाभिधभाषाग्रंथाधारतः । तत्र प्रकटीचक्रे श्रीमत्पांगलमहोदयैः कुदकुंदभगवान् मालवप्रांतांतर्गत वारापुरवास्तव्यः परंतु केवलतत्कथातिरिक्तं वारापुरनिवासित्वे न नियामकं किमप्यनवयं गमकं । समयविचारः समवगम्यते किलेदं नंदिसंघपट्टावलीतो यत् ४९ तमायां वैक्रमशताब्दी न्यवासीद्भगवान् कुंदकुंदो नंदिसंघपट्टे । स च तदावे त्रायस्त्रिंशद्वर्षीयः। एवं च मासदशकपूर्वकैकपंचाशद्वर्षाणि संघ संशास्य १०१ तमसंवत्सरसन्निकृष्टे समन्वभूदव्ययसुखं । परंतु विचारनिकषायमाणे विनिर्णीतः किलायं समयकलधौतः सर्वथा कल्पित एव प्रतिभाति । जिनवरमहावीरनिर्वाणप्रापणानंतरं समजनिष्ट ६८३ वर्षपर्यंतमंगज्ञानप्रवृत्तिरत्र । अनंतरं च सा तिरोबभूव इति श्रुतावतारग्रंथाधारतः समवगम्यते । इत्थं तद्व्यवस्था१ इंद्रभूतिगणधरः (केवली) १२ वर्षाणि २ सुधर्माचार्यः १२ वर्षाणि ३ जम्बूस्वामी ३८ वर्षाणि ४ विष्णुप्रभृतिपंचश्रुतकेवलिनः । १०० वर्षाणि ५ विशाखदत्तप्रभृतयः-एकदशांगदशपूर्वपाठिनः १८३ वर्षाणि नक्षत्रादय एकादशांगपाठिनः २२० वर्षाणि सुभद्रादय आचांरांगपाठिनः ११८ वर्षाणि महावीरभगवनिर्वार्णानंतरं ६८३ वर्षपर्यंत जागर्तिस्मांगप्रवृत्तिरिति-हरिवंशपुराणप्रशस्तावीप लिखितमास्ते । यथा त्रयः क्रमात्केवलिनो जिनात्परे द्विषष्टिवर्षांतरभाविनोऽभवन् । ततः परे पंच समस्तपूर्विणस्तपोधना वर्षशतांतरे गताः ॥ १॥ ज्यशीतिके वर्षेशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । १ त्रिलोकसारादिप्रथप्रामाण्या त्सुनिश्चितमेतत् ४७० तमवैक्रमसंवत्सरपूर्व मुमुचे भगवन्महावीरः । अस्म त्रिनिर्दिष्टसमयः श्वेतांबरंथश्वपि निश्चितः। २ पहावलीलेखकमतात्-लोहाचार्यानंतरभाविनः-अद्विलि-माघनंदि-भूतवलि-पुष्पदंताचार्या अप्यंगशानिनः समभूवन किंतु प्रमाणाभावान्न तचारु । ३ गुणधरधरसेनान्वयगुर्वोः पूर्वापरक्रमोऽस्माभिः । न ज्ञायते तदन्वयकथकागममुनिजनाभावात् ॥११॥ भुतावतारः।
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy