________________
प्रस्तावना
प्रियमहाभागाः
केचिन्निरवधिविशंकटाजवंजवजलनिधिविलसितविविधातुंदनक्रशंबूकसं जनितामितभीतिभारचंचुरचेतसः सुचेतसः विरहितनिखिलव्यसनानिकरसंभूतानघस्वस्वरूपालयं कमप्यालयं गवेषमाणाः परिधावमा - नाश्वाहरहस्तत्संगमसमीहयाऽवतरंत्यनुभूतिगोचरतां परितो भुवि । परं पितृपैतामहसंपदनादिदुर्वासनानिचितांतःकरणत्वात् वास्तविकात्मतत्त्वावबोधबहिर्भूत सर्वज्ञमन्यस्वार्थिमर्त्यप्रतारितात्मत्वात् कल्पितविफल लोकापवादसमुत्पत्स्यमानभयाकीर्णत्वाद्वा न नाम चेतयंते ते आत्मनीनस्वरूपं स्वायत्तया । किंतु न तथाविधपक्षपातार्हाः मनस्विनः । न वा तेषां पक्षपातो धर्मः । असुभृत्समष्टिसमीहितपरिपूरणकल्प महीरुहा हि संतः समादरणीयस्तै निहत्य विकल्पं विभाव्यात्मनीनमनीषया समीचीनः पन्थाः । विनिमय्यैवं समुन्नीयते प्रकाशपदवीं तात्त्विकात्मस्वरूपप्रतिभासकमिदं समयप्राभृतं ।
समवगतिरियं महती विदुषां यत्सत्तावस्थापन्नेषु सांख्यमीमांसाप्रभृतिनैकविधशास्त्रनिकरेषु समवबोधयति यथा याथात्म्येनात्मनः स्वरूपं परमात्मप्रीतिं च वेदांतशास्त्रं न तथापरं । अवितथं चैतत् यावन्न भवत्यात्मस्वरूपविबोधः स्वात्मनि, न विरज्यते तावदनात्मनीननितंबिनीसूनुसुहृत्संपद्भिरात्मा । आत्मस्वरूपावगतिरेव वैराग्यं तच्च यदि शिक्षयति तद्वेदांतशास्त्रमेव कथंचित् ।
भारतव्यतिरिक्त-इंगळें । दिदेशानामपि संडुढौके संप्रति सन्मानसराणं वेदांतशास्त्रं । समाविरभाविषत कियंत्यश्चित् परिषदस्तत्र परितो वेदांतशास्त्रानवद्यसिद्धांत प्रसाराय । मनंति च शेमुषीमंथनदंडेन तद्रसघृतसमीहया तच्छास्त्र सिद्धांत क्षीरमहरहस्ते ।
विभाव्य वेदांतशास्त्रस्य तथाविधविचित्रसन्मानततिं, अमलात्मस्वरूपलिलिक्षां च बहलतया पक्षपातबहिर्भूतानां स्वपरहितैषिणां च सुमनीषिणां समुपानीयते कथंकथमपि समाविर्भाव्यैतत्समयप्रामृतं तेषां पुरस्तात् । समेति-समीचीनतया जानातीति समय आत्मा तस्य प्राभृतं - शास्त्रमित्यनुगतार्थे विभ्राणं नामेदंआत्मन एव कृतो विचारोऽत्र शास्त्रे - इति समाविर्वेभूयते । दिगंबर जैनसमाजे प्राभृतामिदं जैनवेदांताध्यात्मशास्त्रनामभ्यां विश्रुतं स्वीयानवद्यात्मस्वरूपविवरणशैलीप्रभावात् । नात्र चित्रं प्राभृतरचयितुः श्रीमद्भगवत्कुंदकुंदस्य कृतिसर्वस्वमेतद्भिभाव्यते । पूर्वे जिनागमतः समवगम्यात्मस्वरूपं स्वात्मना च पश्चादनुभूय स्वपरात्मस्वरूपसमास्वादसमीहया व्यलेखीदं महीयान् ग्रंथो महता प्रयासेन जनसमुदयहिताय तेन भगवता ।
एतच्छास्त्रसमुपवर्णितसिद्धांताः सर्वथा वेदांतशास्त्रसमाहितसिद्धांतसाम्यं प्रतिपद्यते इति
शक्नुमो वयं प्रतिपादयितुं यतो हि--आर्हतसिद्धांते वरीवरीति नयद्वयमादिष्टं । तत्र नात्मनः परकीयं ललनात्मजादिवस्तु-आत्मनीनमिति हि शुद्धनिश्वयविषयः । परकीयवस्त्वपि कथंचित्संबंधितां विभर्ति घृतकुंभवदिति व्यवहारविषयः । नैतावता ब्रह्म विहाय परवस्त्वेव नास्तीति जैनवेदांतमतं । इतरवेदांते च वस्तुतस्तु वस्तु ब्रह्मैव तदपरं सकलं कल्पितं ततो न सामस्त्येन जैनवेदांतेतरवेदांतयोस्तौल्यं । संबंधमात्रतः परं वस्तु नात्मनः [ ब्रह्मणः ] परवस्तुन्यात्मत्वाभिमानो मिथ्येति इतरवेदांता सिद्धांतत्वे सम्मतमेव तज्जैनवेदांतस्यापि । कियतां चिदन्येतरवेदांत सिद्धांतानां विमतत्वेऽपि सम्मतत्वमपि कियतां चिदपरं । नात्र संशीतिः सकलोपाधिविरहितत्वेनोपासनं तु ब्रह्मण इतरवेदांतस्य पुष्णात्येव निष्कल्मषं तुल्यत्वं जैनवेदांतस्य ।
।
विशदतया कियतां चित्सिद्धांतानां समत्वाविर्भावाय व्यचारि मया परं नाशकं तथाकर्तुमहमनवका - शतया । मत्कृतसमत्वत एव वा मा तुष्युर्विद्वांसः स्वयं चोभयेोस्तौल्यं विनिर्णोयासुरिति च विनिचाय्य बुद्धापि