________________
सनातन जैनप्रथमालायां
इदमेवात्मबंधयोर्द्विधाकरणे प्रयोजनं यद्वंधपरिहारेण शुद्धात्मोपादानमित्युपदिशति
आत्मख्यातिः - आत्मबंधौ हि तावन्नियतस्वलक्षणविज्ञानेन सर्वथैव छेत्तव्यौ ततो रागादिलक्षण समस्त एव बंध निर्मोक्तव्यः, उपयोगलक्षणशुद्ध आत्मैव गृहीव्यः । एतदेव किलात्मबंध योर्द्विधाकरणस्य प्रयोजनं यद्वंधत्यागेन शुद्धात्मोपादानं ।
१५४
कह सो धिप्पदि अप्पा पण्णाए सो दु धिप्पदे अप्पा | जह पण्णाए विभत्तो तह पण्णा एव घित्तव्व ॥ ३२४॥
कथं स गृह्यते आत्मा प्रज्ञया सः तु गृह्यते आत्मा । यथा प्रज्ञया विभक्तस्तथा प्रज्ञयैव गृहीतव्यः || ३२४॥
तात्पर्यवृत्ति - कह सो घिप्पदि अप्पा कथं स गृह्यते आत्मा 'दृष्टिविषयो न भवत्यमूर्त्तत्वात्, इति प्रश्न : ? पण्णाए सो दु धिप्पदे अप्पा प्रज्ञाभेदज्ञानेन गृह्यते, इत्युत्तरं । कथं ! इति चेत जह पण्णा विभत्तो यथा पूर्वसूत्रे प्रज्ञया विभक्तः, रागादिभ्यः पृथक्कृतः तह पण्णाएव घित्तव्वो तथा प्रज्ञयैव गृहीतव्यः । ननु केन शुद्धोऽयमात्मा गृहीतव्यः ? प्रज्ञयैव शुद्धोयमात्मा गृहीतव्यः शुद्धस्यात्मनः स्वयमात्मानं गृण्हतोऽपि विभजत इव प्रज्ञककरणत्वात् । अतो यथा प्रज्ञया प्रविभक्तस्तथा प्रज्ञयैव गृहीतव्यः ।
कथमात्मा प्रज्ञया गृहीतव्य इति चेत्
आत्मख्यातिः - ननु केन शुद्धोयमात्मा गृहीतव्यः ? प्रज्ञयैव शुद्धायमात्मा गृहीतव्यः, शुद्धस्यात्मनः स्वयमात्मानं गृण्हतो विभजत इव प्रज्ञैककरणत्वात् अतो यथ प्रज्ञया विभक्तस्तथा प्रज्ञयैव गृहीतव्यः । - कथमात्मा प्रज्ञया गृहीतव्य: ? इति चेत्
पण्णा घेत्तव्वो जो चेदा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झपरित्त णादव्वा ॥ ३२५॥ ज्ञया गृहीतव्यो यश्चेतयिता सोऽहं तु निश्चयतः । अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥ ३२५॥
तात्पर्यवृत्तिः: - प्रज्ञया गृहीतव्यो यश्चेतयिता सोहं तु निश्चयतः अवशेषा ये भावास्ते मम परे इति ज्ञातव्याः। यो हि निश्चयतः स्वलक्षणावलंविन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं, ये त्वमी अवशिष्टा अन्ये `स्वलक्षणलक्ष्या व्यवह्रियमाणाभावास्ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतोऽत्यंतमत्तो भिन्नास्ततोऽहमेव मयैव मत्त एव मय्येव मामेव गृह्णामि, यत् किल गृह्णामि तच्चेतनैकक्रियत्वादात्मनश्वेतये एव, चेतयमान एव चेतयें, चेतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमान एव चेतये, चेतयमानमेव चेतये।अथवा न चेतय, न चेतयमानश्चेतये, न चेतयमानेन चेतये, न चेतयमानाय चेतये, न चेतयमानाच्चेतये, न' चेतयमाने चेतये, न चेतयमानं चेतये, किं तु सर्वविशुद्ध चिन्मात्राभावोऽस्मि । भित्त्वा सर्वमपि स्वलक्षणवलात्तुं हि यच्छक्यते चिन्मुद्रांकितनिर्विभागमहिमा शुद्धश्विदेवास्म्यहं । भिद्यते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भिद्यतां न भिदास्ति काचन विभौ भावे विशुद्धे चिति ॥
आत्मख्यातिः -- योहि नियतस्वलक्षणावलंविन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्यं व्यापकत्वस्य व्याप्यत्वमनायांतोऽत्यंतं मत्तो भिन्नाः । ततोऽहमेव मयैव मामेव मत्त एव मय्येव मामेव गृण्हामि । यत्किल गृण्हामि तच्चेतनैकक्रियत्वादात्मंनश्चेतये, चेतयमान एव चेतये, चतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमाने एव चेतये, चेतयमानमेव चेतये । अथवा न चेतये, न चेतयमानश्चेतये, न चेतयमानेन