________________
१४२
सनातनजैनग्रंथमालायां‘एवं व्यवहारनयः पतिषिद्धो जानीहि निश्चयनयेन ।
निश्चयनयसंलीना मुनिनः प्राप्नुवंति निर्वाणं ॥२९६॥ तात्पर्यवृत्ति:--एवं ववहारणओ पडिसिद्धो जाण णिच्छयणयेण एवं पूर्वोक्तप्रकारेण परद्रव्याश्रितत्वाद् व्यवहारनयः प्रतिषिद्ध इति जानीहि । केन ? कर्तृभूतेन शुद्धात्मद्रव्याश्रितनिश्चयनयेन। कस्मात् ? णिच्छयणयसल्लीणा मुणिणो पावंति णिवाणं निश्चयनयमालीना आश्रिताः स्थिताः संतो मुनयो निर्वाणं लभंते यतः कारणादिति । किं च यद्यपि प्राथमिकापेक्षया प्रारंभप्रस्तावे सविकल्पावस्थायां निश्चयसाधकत्वाद् व्यवहारनयः सप्रयोजनस्तथापि विशुद्धज्ञानदर्शनलक्षणे शुद्धात्मनि स्थितानां निष्प्रयोजन इति भावार्थः । कथं निष्प्रयोजनः ? इति चेत् कर्ममिरमुच्यमानेनाभव्येनाण्याश्रियमाणत्वात् ।
आत्मख्याति:--आत्माश्रितो निश्चयनयः, पराश्रितो व्यवहारनयः । तत्रैवं निश्चयनयेन पराश्रित समस्तमध्यवसानं बंधहेतुत्वेन मुमुक्षोः प्रतिषेधयता व्यवहारनय एव किल प्रतिषिद्धः, तस्यापि पराश्रितत्वाविशेषात् । प्रतिषेध्य एवं चायं, आत्माश्रितनिश्चयनयाश्रितानामेव मुच्यमानत्वात् , पराश्रितव्यवहारनयस्यैकातेनामुच्यमानेनाभव्येनाश्रियमाणत्वाच्च । कथमभव्येनाश्रियते व्यवहारनयः ? इति चेत् ।
वदसमिदी गुत्तीओ सीलतवं जिणवरेहि पण्णतं । कुव्वंतोवि अभविओ अण्णाणी मिच्छदिठ्ठीय ॥२९७॥
व्रतसमितिगुप्तयः शीलतपो जिनवरैः प्रज्ञप्तं ।
कुर्वन्नप्यभव्योऽज्ञानी मिथ्यादृष्टिस्तु ॥२९७॥ तात्पर्यवृत्तिः–वदसमिदी गुत्तीओ सीलतवं जिणवरेहि परिकहिदं व्रतसमितिगुप्तिशील तपश्चरणादिकं जिनवरैः प्रज्ञप्तं कथितं कुव्वंतोवि अभव्यो अण्णाणी मिच्छदिडीओ मंदमिथ्यात्वमंदकषायोदये सति कुर्वन्नप्यभव्यो जीवस्त्वज्ञानी भवति मिथ्यादृष्टिश्च भवति । कस्मात् ? इति चेत् मिथ्यात्वा दिसप्तप्रकृत्युपशमक्षयोपशमक्षयाभावात् शुद्धात्मोपादेयश्रद्धानाभावात् । इति
अथ तस्यैकादशांगश्रुतज्ञानमस्ति कथमज्ञानी ? इति चेत्
आत्मख्तातिः - शीलतपःपरिपूर्ण त्रिगुप्तिपंचसमितिपरिकलितमहिंसादिपंचमहाव्रतरूपं, व्यवहारचारित्रं,अभव्योऽपि कुर्यात् तथापि स निश्चारित्रोऽज्ञानी मिथ्यादृष्टिरेव निश्चयचारित्रहेतुभूतज्ञानश्रद्धाशून्यत्वात्। तस्यैकादशांगज्ञानमस्ति ? इति चेत्
मोक्खं असदहंतो अभवियसत्तो दु जो अधीएज । पाठो ण करेदि गुणं असदहंतस्स णाणं तु ॥२९८॥ मोक्षमश्रद्दधानोऽभव्यसत्वस्तु योधीयीत ।
पाठो न करोति गुणमश्रद्दधानस्य ज्ञानं तु ॥२९८॥ तात्पर्यवृत्तिः-- मोक्खं असदहतो अभविय सत्तो हुँ जो अधीयेज मोक्षमश्रदधानः सन्नभव्यजीवो यद्यपि ख्यातिपूजालाभार्थमेकादशांगश्रुताध्ययनं कुर्यात् पाठो ण करेदि गुणं तथापि तस्य शास्त्रपाठः शुद्धात्मपरिज्ञानरूपं गुणं न करोति किंकुर्वतस्तस्य ? असदहंतस्य णाणं तु अश्रद्दधतोऽरोच मानस्य । किं ? ज्ञानं । कोऽर्थः ? शुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपेण निर्विकल्पसमाधिना प्राप्यं गम्यं
पिच्छयणयासिदा पुण पाठायमात्मरख्याती।