________________
समयप्राभत । इतिचेत् तेसिमभावेण वज्झति तेषां जीवगतरागादिभावप्रत्ययानामभावे सति द्रव्यप्रत्ययेष्वुदयागतेष्वपि बीतरागपरमसामायिकभावनापरिणताभेदरत्नत्रयलक्षणभेदज्ञानस्य सद्भावे सति कर्मणा जीषा न बध्यते यतः कारणादिति । ततः स्थितं नवतरदव्यकर्माखवस्योदयागतद्रव्यप्रत्ययाः कारणं, तेषां च जीवगता रागादिभावप्रत्ययाः कारणमिति कारणकारणव्याख्यानं ज्ञातव्यं ।
___ अथ यदुक्तं पूर्व रागादिविकल्पोपाधिरहितपरमचैतन्यचमत्कारलक्षणनिजपरमात्मपदार्थभाषनारहितानां बहिर्मुखजीवानां पूर्वबद्धप्रत्ययाः नचतरकर्म बनंति. तमेषार्थ दृष्टांताभ्यां दृदयति
आत्मख्यातिः-रागद्वेषमोहा न संति सम्यग्दृष्टः सम्यग्दृष्टित्वान्यथानुपपत्तेः । तदभावे न तस्य द्रव्यप्रत्ययाः पुद्गलकर्महेतुत्वं विभ्रति द्रव्यप्रत्ययानां पुद्गलकर्महेतुत्वस्य रागाद्यहेतुत्वात् । ततो हेत्वभावे हेतुमदभावस्य प्रसिद्धत्वात् ज्ञानिनो नास्ति बंधः ।
अध्यास्य शुद्धनयमुद्धतबोधचिन्हमैकाग्यमेव कलयति सदैव ये ते । रागादिमुक्तमनसः सततं भवंतः पश्यंति बंधविधुरं समयस्य सारं ॥ १२६ ॥ प्रच्युत्य शुद्धनयतः पुनरेव वे तु रागादियोगमुपयांति विमुक्तबोधाः ।। ते कर्म बंधमिह विभ्रति पूर्वबद्धद्रव्याखवैः कृतविचित्रविकल्पजालं ॥ १२७ ॥
जह पुरिसेणाहारो गहिदो परिणमदि सो अणेयविहं । मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो ॥२०॥ तह णाणिस्स दु पुव्वं जे वद्धा पच्चया वहुवियप्पं । वज्झते कम्मं ते णयपरिहीणा दु ते जीवा ॥२०॥
यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविध मांसवसारुधिरादीन् भावान् , उदराग्निसंयुक्तः ॥ २०३ ।। तथा ज्ञानिनस्तु पूर्व बद्धा ये प्रत्यया बहुविकल्प
घनतिः कर्म ते नयपरिहानास्तु ते जीवाः ।। २०४ ।। तात्पर्यवृचिः-जह पुरिसणाहारो गहिदो परिणमदि सो अणेयविहं यथा पुरुषेण गृही साहारः स परिणमति, अनेकविधं बहुप्रकारं, वहुप्रकारं किं ? मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो मांसवसारुधिरादीन् पर्यायान् कर्मतापन्नान् परिणमति । कथंभूतः सन् ? उदराम्निसंयुक्तः इति दृष्टांतो गतः।
तह जाणिस्स दु पुन जे बद्धा पच्चया बहुवियप्प बझंते कम्मै ते - तथैव च पूर्वोक्तोद. राग्निसंयुक्ताहारदृष्टांतेन अज्ञानिनश्चैतन्यलक्षणजीवस्य, नच विवेकिनः । पूर्व ये बद्धाः, मिथ्यात्वादि द्रव्यप्रत्ययाः, जीवगतरागादिपरिणाममुदराग्निस्थानीयं लब्ध्वा ते बहुविकल्प कर्म बध्नति ।णयपरिहीणा दु ते जीवा येषां जीवानां संबंधिनः प्रत्ययाः कर्म बध्नति ते जीवाः । कथं भूताः । परमसमाधि
क्षणभेदज्ञानरूपात् शुद्धनयाद्भ्रष्टाः, च्युताः । अथवा द्वितीयव्याख्यानं । ते प्रत्यया अशुद्धनयेन जीवात् सकाशात् परिहीणा भिन्ना न च भवंति । इदमत्र तात्पर्य, निजशुद्धात्मध्येयरूपसर्वकर्मनिर्मूलन समर्थशुद्धनयो विवेकिभिर्न त्याज्य इति । एवं कारणव्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । इतिसमयसारव्याख्यानमुख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ सप्तदशगाथाभिः पंचस्थलै
रानवविपक्षद्वारेण षष्ठः संबराधिकारः समाप्तः ।