SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १८ स्थाहादमञ्जरी। स्यैव साधकं सत्तायाश्च परमब्रह्मरूपत्वात् तदुक्तं "य द्वैतं तद्ब्राणो रूपमि"ति अनुमानादपि तत्मद्भावो विभाव्यत एव तथा हि विधिरेव तत्त्वं प्रमेयत्वात् यतः प्रमाणविषयभूतो ऽर्थः प्रमेयः प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वैनैव प्रवृत्तेस्तथाचोक्तम् । प्रत्यक्षादावतारः स्याद्भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांश जिरक्षिते॥ यच्चाभावाख्यं प्रमाणं तस्य प्रामाण्याभावान्न तत्यमाणं तदिषयस्य कस्य चिदप्यभावात् यस्तु प्रमागपञ्चकविषयः स तु विधिरेव तेनैव च प्रमेयत्वस्य व्याप्तत्वात् सिद्धं प्रमेयत्वेन विधिरेव तत्वं यत्तन विधिरूपं तन्न प्रमेयं यथा खरविषाणं प्रमेयं चेदं निखिलं वस्ततत्वं तस्मादिधिरूपमेव अतो वा त सिद्धिः ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् यत्प्रतिभासते तत्प्रतिभासान्त: प्रविष्टं यथा प्रतिभासस्वरूपं प्रतिभासन्ते च ग्रामारामादय: पदार्थास्तस्मात्प्रतिभासान्तःप्रविष्टा: आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यरे यदन्तिके यदन्तरस्य सर्वस्य यदुत सर्वस्थास्य बाह्यत" इत्यादिः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो ऽनुमन्तव्य
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy