________________
८८
स्थाद्वादमञ्जरौ।
बोधो जानं स च स्वार्थावबोधक्षम एव प्रकाशते वस्थात्मस्वरूपस्यार्थस्य योऽवबोध: परिच्छेदस्तत्व क्षम एव समर्थ एव प्रतिभासत इत्ययोगव्यवच्छेदः प्रकाशत इति क्रियया ऽवबोधस्य प्रकाशरूपत्वसिद्धेः सवप्रकाशानां तु खार्थप्रकाशकविन बोधस्थापि तत्सिद्विविपर्यये दूषणमाह नार्थकथान्यथात्त्विति अन्यथेति अर्थप्रकाशने ऽविवादात् ज्ञानस्य स्वसंविदितत्वाऽनभ्युपगमे ऽर्थकथैव न स्यात् अर्थकथा पदार्थसंबधिनी वाती सदसटूपात्मकं स्वरूपमिति यावत् तु शब्दोवधारणे भिन्न क्रमश्च स चार्थकथया सह योजित एवं यदि हि ज्ञानं स्वसंविदितं नेष्यते तदा तेनात्मत्तानाय जानान्तरमपेक्षणीयं तेनाप्यपरमित्याद्यनवस्था ततो ज्ञानं तावत्स्वावबोधव्यग्रतामग्नम् अर्थ स्तु जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथामपि कथयेत् तथाप्येवं तानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि परे तीर्थान्तरीयाः ज्ञानं कर्मतापन्नमनात्मनिष्ठं न विद्यते श्रात्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठं अस्वसं विदितमित्यर्थः प्रपेदिरे प्रपन्नाः कुत इत्याह परेभ्यो भयतः परे पूर्वपक्षवादिनस्तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नीपपद्यते स्वात्मनि क्रियाविरोधादित्युपालम्भमम्भावनासम्भवं यद्भयं तस्मोत्तदाश्रित्येत्यर्थः इत्यमक्षरगमनिकां विधाय आवार्थः प्रपञ्च्यते भट्टास्ताव दिदं वदन्ति यत् ज्ञानं स्वसंविदितं न भवति स्वा