SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्याद्दादमञ्जरौ | 66 परिणामान्तरापत्तिरूपत्वान्न पार्थक्यमात्मनः सकाशादचितं तदेवं द्वादशविधं प्रमेयमिति वाग्विस्तरमात्र “ द्रव्यपर्यायात्मकं वस्तु प्रमेयमि " ति तु समौचीनं लक्षणं सर्वसङ्गाहकत्वात् एवं संशयादौनामपि तत्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम् अत्र तु पतीतत्वाद् ग्रन्यगौरवभयाच्च न प्रपञ्चितं प्रत्यक्ष रेण a न्यायशास्त्रमवतारणीयं तचावतार्यमाणं ग्रन्थान्तरतामवगाहत इत्यास्तां तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्वाभासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादितिपदेनोपक्षेपः कृतः तव परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातश्छलं तत्त्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तनिषेधो वाक्छलं यथा नवकम्बलोऽयं माणवक इति नूतनविवचया कथिते पर: संख्यामारोप्य निषेधति कुतोऽस्य नव कम्बला इति संभावनयातिप्रसङ्गनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलं यथा श्रहो न खल्वसौ ब्राह्मणो विद्याऽऽचरण संपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्ददति संभवति ब्राह्मणे विद्याऽऽचरणसंपदिति तच्छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नभियुङ्क्ते यदि ब्राह्मणे विद्याऽऽचरण संपज्ञवति वायेऽपि सा भवे द्वात्योऽपि ब्राह्मण एवेति ६६. -
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy