________________
स्थाहादमारो। गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मांगादिति छलादौनि प्राह कारुणिको मनिः ॥
कारुणिकत्वं च वैराग्यान्न भिद्यते ततो युक्तमुक्तम् अहो विरक्त इति स्तुतिकारेणोपहासवचनम् अथ मायोपदेशादितिसूचनासव वितन्यते अक्षपादमतेकिल षोडश पदार्थाः “पमाणपमेयमंशयपयोजनटष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज पवितण्डाहेत्वाभासच्छलजातिनि:ग्रहस्थानानां तत्वत्तानान्निःश्रेयसाधिगम" इति वचनान्न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसावाप्तिहेतुर्न होकेनैव क्रियाविरहितेन ज्ञानमात्रेण मुक्ति युक्तिमती असमग्रसामग्रीकत्त्वादिघटितैकचक्ररथेन मनौषितनगरप्राप्तिवन्न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः किं तु तत्वज्ञानपूर्विकाया एव तस्या मुक्ति हेतुत्वमिति ज्ञापनार्थ तत्वज्ञानान्निःश्रेयसाधिगम इति ब्रमः न ह्यमौषां संहते अपि ज्ञानक्रिये मुक्तिप्राप्तिहेतुभूते वितथत्वात् तज्ज्ञानक्रिययोः न च वितथत्वमसिद्ध विचार्यमाणानां षोडशानामपि तत्वाभासत्वात तथा हि तैः प्रमाणस्य ताबल्लक्षणमित्थं सूवितम् “अ. र्थोपलब्धिहेतुः प्रमाणमि"ति एतच्च न विचारसहंयतोऽर्थोपलब्धौ हेतुत्वं यदि निमितत्वमात्र तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्त्वप्रसङ्गः अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं तर्हि तज्ज्ञानमेव युक्तं न चेन्द्रियसन्निक