SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ५२ स्वादादमञ्जरी । स्य तथोत्पत्त्यसम्भवात् ज्ञानवानहमिति हि प्रत्ययो नाहीतज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते खमतविरोधात् "नागृहीतविशेषणा विशेष्ये बुद्धिरिति वचनात् गृहीतयोस्तयोरुत्पद्यत इति चेत्कुतस्तत्गृहीति ने तावत्वत: स्वयंवेदनानभ्युपगमात् स्वयंविदिते द्यात्मनि ज्ञाने च स्वतः सा युज्यते नान्यथा सन्तानान्तरवत् परतश्चेत्तदपिज्ञानान्तरं विशेष्यं नागृहौते ज्ञानत्त्वविशेषणे ग्रहीतुं शकां गृहीते हि घटत्वे घटग्रहणमिति ज्ञानान्तरातग्रहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः तदेवं नात्मनो जडस्वरूपता संगच्छते तदसङ्गतौ च चैतन्यमपाधिकमात्मनोऽन्यदिति वाङ्मावं तथा यदपि न संविदानन्दमयो च मुक्तिरिति व्यवस्थापनायानुमानमवादि सन्तानत्वादिति तवाभिधीयते ननु किमिदं सन्तानत्वं स्वतन्त्रमपरापरपदार्थोत्पत्तिमाचं वा एकाश्रया परापरोत्पत्ति र्वा तत्राद्यः पक्षः सव्यभिचारः अपरापरेषामुत्पादकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वादथ हितीयपक्षस्तर्हि तादृशं सन्तानत्वं प्रदोपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुस्तथाविधसन्तानत्वस्य तत्र सङ्गावेऽ प्यत्यन्तोच्छेदाभावादपि च सन्तानतुमपि भविष्यति श्रत्यन्तानुच्छेदश्च भविष्यति विपर्ययबाधकप्रमाणाभावादिति संदिग्धविपक्षव्यावृत्तिकत्वादयनैकान्ति
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy