SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १४ स्यादादमञ्जरी । प्रत्यनुमानं तद्वाधकमिति यतोऽवेश्वररूपो धर्मी प्रतीतो ऽप्रतीतो वो प्ररूपितः न तावदप्रतीतो हेतोराश्रयासिद्दिप्रसङ्गात् प्रतीतश्चे त्केन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितखतनु न प्रतीयते इत्यतः कथमशरोत्वं तस्मान्निरवद्य एवायं हेतुरिति सचैक इति च: पुनरर्थे स पुनः पुरुषविशेष एको ऽद्वितीय: बहूनां हि विश्वविधातृत्त्वखीकारे परस्परविमतिसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनो न्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्येतेति तथा स सर्वग इति सर्वत्र गच्छतीति सर्वगः सर्वव्यापौ तस्य हि प्रतिनियतदेशवर्त्तिवे नियतदेशवृत्तीनां विश्ववयान्तर्वतिपदार्थसार्थानां यथावन्निर्माणानुपपत्तिः कुम्भ्रकारादिषु तथा दर्शना दथ वा सर्वं गच्छति जानातीति सर्वगः सर्वज्ञः सर्वे गत्यर्थाः ज्ञानार्था इति वचनात् सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वादनुरूपकार्योत्पत्ति र्न स्यात् तथा स स्ववश: स्वतन्त्रः सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् तथा चोक्तम् । ईखरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा । अन्यो* जन्तु रनौशोऽय मात्मनः सुखदुःखयोः ॥ इति पारतन्तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघातादनीश्वरत्वापत्तिः तथा स नित्य इति श्रप्रच्युतानुत्पन्नस्थिरैकरूप स्तस्य ह्यनित्यत्त्व े * क्षुद्री इति २ पु० पाठः ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy