SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २१२ स्थाहादमचरौ। थकलुषितान्तःकरणा: सन्तः पक्षपातिनः इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनपवणा वर्तन्ते कमाइतोमत्मरिण इत्याह अन्योन्यपक्षपतिपक्षभावात् पच्यते व्यक्ती क्रियते साध्यधर्मवैशिष्टयन हेत्वादिभिरिति पनः कक्षीकृतधर्मपतिष्ठापनाय साधनोपन्यासस्तस्य प्रतिकूलः पक्षः प्रतिपक्षः पक्षस्य प्रतिपक्षो विरोधी पक्षस्तस्य भावः प. क्षपतिपनभावः अन्योन्यं परस्परं यः पक्षपतिपक्षत्वम् अन्योन्य पक्ष प्रतिपक्षभावस्तस्मात् तथा हि य एव मौमांमकानां नित्यः शब्द इति पक्षः स एव च सौगतानां प्रतिपक्षस्तन्मते शब्दस्यानित्यत्त्वात् य एव सौगतानाम् अनित्यः शब्द इति पक्षः स एव मीमांसकानां प्रतिपक्ष एवं सर्वप्रयोगेष योज्यं तथा तेन प्रकारेण ते तव सम्यक एति गच्छति शब्दोऽर्थमनेनेति"पुन्नाम्नि घे" समय: मंकेतो यहा सम्यगवैपरीत्येने यन्ते जायन्ते जीवाजीवादयोऽर्था अनेनेति समयः सिद्धान्तो ऽथ वा सम्यगयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रुपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन्निति समय आगमः न पक्षपाती नैकपक्षानुरागी पक्षपातित्वस्य कारणं मत्सरित्वं परप्रवादेषतं त्वत्ममयस्य च मत्सरित्वाभावा न्न पक्षपातित्वं पक्षपातित्वं हि मत्सरित्वेन व्याप्तं व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयतीति मत्सरित्वे निवर्तमाने पक्षपातित्त्वमपि निवर्तत
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy