SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८६ वादादमञ्जरी । धिकरणं तेन विशेषस्य सामान्यस्य चेति संकरदोषः येन स्वभावेन सामान्यं तेन विशेषो येन विशेषस्तेन सामान्यमिति व्यतिकरः ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः ततश्चाप्रतिपत्तिः ततश्च प्रमाणविषयव्यवस्था हा निरिति एते च दोषाः स्यादादस्य जात्यन्तरत्वान्निरवकाशा एवातःस्याद्दादमर्मवेदिभिरुडरणौयास्तत्तदुपपत्तिभिरिति स्वतन्त्रयो नि' - रेपेक्षयोरेव सामान्यविशेष योविधिरूपयोस्तेषामवकाशात् अथ वा विरोधशब्दोऽवदोषवाची यथा विरुद्द - माचरतीति दुष्टमित्यर्थः ततश्च विरोधेभ्यः विरोधवैयधिकण्यादिदोषेभ्यो मीता इति व्याख्येयम् एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्तीति काव्यार्थः ॥ २३ ॥ अथानेकान्तवादसा सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसाम्बाद सौहित्यमुपवर्णयन्नाह । स्यानाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरंपरेयम् ॥ २५ ॥ स्वादित्यव्ययमनेकान्तद्योतकम् अष्टास्वपि पदेषु
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy