SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १८० स्यादादमञ्जरौ । दकं वचः सकलादेशः अस्यार्थः कालादिभिरष्टभिः कृत्त्वा यदभेददृत्तेर्धर्मधर्मिणोरपृथक्भावस्य प्राधान्यं तस्मात्कालादिभि भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाचा समकालमभिधायकं वाक्यं सकलादेश स्तद्विपरीतस्तु विकलादेशी नयवाक्यमित्यर्थः अथमाशयः यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदप्रधानटच्याऽभेदोपचारेण वा प्रतिपादयति सकला देश: तस्य प्रमाणाधीनत्त्वात् विकलादेशस्तु क्रमेण भेदो'पचारादप्राधान्याद्दा तदभिधत्ते तस्य नयात्मकत्वात्कः पुनः क्रमः किं वा यौगपदा यदाऽस्तित्त्वादिधमणां कालादिभिर्भेदविवक्षा तदेकशब्दस्यानेकार्थप्रत्यायने शक्ताभावात्क्रमः यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृतमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्म प्रत्यायनमुखेन तदात्मकतामापन्नस्थानेकाशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद्यौगपद्य के पुनः कालादयः कालः १ अत्मरूपम् २ अर्थ: ३ संबन्धः ४ उपकारः ५ गुणिदेशः ६ संसर्गः ७ शब्दः ८ इति तत्र स्याज्जीवादिवस्त्वस्त्येवेत्यव यत्कालमस्तित्वं तत्कालाशेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः १ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीति श्रात्मरूपेणाभेदटत्तिः २ य एव चाधारोऽर्थो द्रव्याख्यो ऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः २ य एव चाविष्वग्भावः कथं चित्तादाम्यलक्षणः सम्बन्धोऽस्ति
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy