SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्वाद्दादमञ्जरौ | १२७ न्नसम्भवात् किं चार्थसारूप्यमर्थाकारता तच्च निश्चयरूपमनिश्चयरूपं वा निश्चयरूपं चेत्तदेव व्यवस्थापकमस्तु किमुभयकल्पनयाऽनिश्चितं चेत्स्वयमव्यवस्थितं कथं नीलादिसम्वेदनव्यवस्थापने समर्थम् अपि च केयमर्थाकारता किमर्थग्रहणपरिणाम आहोस्विदर्थाकारधारित्वं नादाः सिद्धसाधनात् द्वितयस्तु ज्ञानस्य प्रमेयाकारानुकरण।ज्जडत्वापत्त्यादिदोषाघातः तन्त्र प्रमाणादेकान्तेन फलस्याभेद: साधीयान् सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था तनावविरोधात् न हि सारूप्यमस्य प्रमाणमfaगतिः फलमिति सर्वथा तादात्म्ये सिद्धात्त्यतिप्रसङ्गात् न तु प्रमाणस्या तारूण्यव्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेन्नैवं स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः कथं च प्रमाणस्य फलस्य चाप्रमाणाफलव्याकृत्या प्रमाणफल व्यवस्थावत्प्रमा णान्तरफलान्तरख्यावृत्याध्यप्रमाणत्वस्थाफलत्वस्य च व्यवस्था न स्याद्दिजातीयादिव सजातीयादपि व्याट तत्वादस्तुनः तस्मात्प्रमाणात्फलं कथंचिह्निन्नमेवैष्टव्यं साध्यसाधनभावेन प्रतीयमानत्वात् येो हि साध्यसा - धनभावेन प्रतीयेते ते परस्परं भिद्येते यथा कुठारच्छिदिक्रिय इति एवं यौगाभिप्रेतः प्रमाणात्फलस्यैकान्तभेदोऽपि निराकर्तव्यः तस्यैकप्रमातृतादा त्वयेन प्रमाणात्कथंचिदभेदव्यवस्थितेः प्रमाणतया
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy