SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरी । न होइ सअसन्नच्छेते अभिन्नं तदच्छाउ । १११ एतेन विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेत्रां नार्थं शब्दाः स्पृशन्त्यपि ॥ इति प्रत्त्युक्तम् “अर्थाभिधानप्रत्ययास्तुल्पनामधेया" इति वचनात् शब्दस्य ह्येतदेव तत्त्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति स च तत्तथाप्रतिपादयन् वाच्यस्वरूप परिणामपरिणत एव वक्तुं शक्तो नान्यथा श्रतिप्रमङ्गात् घटाभिधानकाले पटाद्यभिधानस्य प्राप्रेरित्यर्थः श्रथ वा भङ्ग्यन्तरेण सकलं काव्यमिदं व्याख्यायते वाच्यं वस्तु घटादिकमेकात्मकमेवैकरूपमे व सदनेकमनेकस्वरूपम् श्रयमर्थः प्रमाता तावत्प्रमेयं लक्षणेन निश्चिनोति तच्च सजातीयविजातीयव्यवच्छेदादात्मलाभं लभते यथा घटस्य सजातीया मृन्मयपदार्था विजातीयाश्च पटादयस्तेषां व्यवच्छेदस्तल्लक्षणं पृथुबुध्नोदराद्याकारः कम्बुग्रौवो जलधारणादिक्रियासमर्थः पदार्थ विशेषो घट इत्युच्यते तेषां च सजातीयानां खरूपं तत्र बुड्याऽऽरोग्य व्यवच्छिद्यते अन्यथा प्रतिनियततत्सुरूपपरिच्छेदानुपपत्तेः सर्वभावनां हि भावाभावात्मकं स्वरूपं एकान्तभावात्म करवे वस्तुनो वैस्वरूप्यं सप्रादेकान्ताभावात्मकत्वे च निःस्वभावता स्यात्तस्मात्सु रूपेणा सत्वात्पररूपेण चासत्त्वाद्भावाभावात्मकं वस्तु यदाह ।
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy