SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८० रायचन्द्रजैनशास्त्रमालायाम् । अथ पुद्गलद्रव्यस्य परिणामस्वभावत्वं साधयति सांख्यमतानुयायिशिष्यं प्रति; जीवे ण सयं बद्धं ण सयं परिणमदि कम्मभावेण ।। जइ पुग्गलद्व्वमिणं अप्परिणामी तदा होदि ॥ ११६ ॥ कम्मइयवग्गणासु य अपरिणमंतीसु कम्मभावेण । संसारस्स अभावो पसजदे संखसमओ वा ॥११७॥ जीवो परिणामयदे पुग्गलव्वाणि कम्मभावेण । ते सयमपरिणमंते कहं तु परिणामयदि चेदा ॥ १९८॥ अह सयमेव हि परिणमदि कम्मभावेण पुग्गलं दव्वं । जीवो परिणामयदे कम्मं कम्मत्तमिदि मिच्छा ॥११९ ॥ णियमा कम्मपरिणदं कम्मं चि य होदि पुग्गलं व्वं । तह तं णाणावरणाइपरिणदं मुणसु तच्चेव ॥ १२० ॥ जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥ ११६ ॥ कार्मणवर्गणासु चापरिणममाणासु कर्मभावेन । संसारस्याभावः प्रसजति सांख्यसमयो वा ॥ ११७ ॥ जीवः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥११८॥ अथ खयमेव हि परिणमते कर्मभावेन पुद्गलद्रव्यं । जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ॥ ११९ ॥ नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलद्रव्यं । तथा तदज्ञानावरणादिपरिणतं जानीत तच्चैवं ॥ १२० ॥ यदि पुद्गलद्रव्यं जीवे स्वयमबद्धसत्कर्मभावेन स्वयमेव न परिणमेत तदा तदपरिणाम्येव चकमिति पंचमस्थले समुदायपातनिका ॥ ११३।११४।११५॥ अथ सांख्यमतानुयायिशिष्यं प्रति पुद्गलस्य कथंचित्परिणामस्वभावत्वं साधयति;-जीवे ण सयं बद्धं जीवे अधिकरणभूते न स्वयं स्वभावेन पुद्गलद्रव्यकर्मबद्धं नास्ति । कस्मात्, सर्वदा जीवस्य शुद्धत्वात् ण सयं परिणमदि कम्मभावेण न च स्वयं स्वयमेव कर्मभावेन द्रव्यकर्मपर्यायेण परिणमति । आगे सांख्यमतको माननेवाले शिष्यके प्रति पुद्गलद्रव्यमें परिणामस्वभाव होना सिद्ध करते हैं अर्थात् सांख्यमती प्रकृति पुरुषको अपरिणामी मानता है उसे समझाते हैं;-[ पुद्गलद्रव्यं ] पुद्गलद्रव्य [ जीवे ] जीवमें [स्वयं ] आप [ न बद्धं ] न तो बंधा है [न कर्मभावेन ] और न कर्मभावसे [वयं ] स्वयं [परिणमते] १ णाणी इत्यपि पाठः।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy