SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५८ रायचन्द्रजैनशास्त्रमालायाम् । . णामविकारतया तथाविधस्य आवस्य कर्ता प्रतिभाति । यथा वापरीक्षकाचार्यादेशेन मुग्धः कश्चिन्महिषध्यानाविष्टो ज्ञानान्महिषात्मानावेकीकुर्वन्नात्मन्यभ्रंकषविषाणमहामहिषत्वाध्यासात्प्रच्युतमानुषोचितापवरकद्वारविनिस्सरणतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानाद ज्ञेयज्ञायकौ परात्मानावेकीकुर्वन्नात्मनि परद्रव्याध्यासान्नोइंद्रियविषयीकृतधर्माधर्माकाशकालपुद्गलजीवांतरनिरुद्धचैतन्यधातुतया तथेंद्रियविषयीकृतरूपिपदार्थ तथैव च यथा कश्चिद् महामहिषादिध्यानाविष्टो महिषाद्यात्मनोईयोर्भेदमजानन्महामहिषोहं गरुडोहं कामदेवोहमग्निरहं दुग्धधारासमानामृतराशिरह मित्याद्यात्मविकल्पं कुर्वाणः सन् तस्य विकल्पस्य कर्ता भवति । तथा च जीवोपि सुखदुःखादिसमताभावनापरिणतशुद्धोपयोगलक्षणभेदज्ञानाभावाद्धर्मादिज्ञेयपदार्थानां शुद्धात्मनश्च भेदमजानन् धर्मास्तिकायोहमित्याद्यात्मविकल्पं करोति, तस्यैव विकल्पस्य कर्ता भवति । तस्मिन् विकल्पकर्तृत्वे सति द्रव्यकर्मबंधो भवतीति । एवं धर्मास्तिकायादिशेयपदार्थविषये ध्यानदृष्टान्तो गतः । हे भगवन् धर्मास्तिकायोयं जीवोयमित्यादिज्ञेयतत्वविचारविकल्पे क्रियमाणे यदि कर्मबंधो भवतीति तर्हि ज्ञेयतत्त्व विचारो वृथेति न कर्तव्यः । नैवं वक्तव्यं । त्रिगुप्तिपरिणतनिर्विकल्पसमाधिकाले यद्यपि न कर्तव्यस्तथापि तस्य त्रिगुप्तिध्यानस्याभावे शुद्धात्मानमुपादेयं कृत्वा आगमभाषया तु मोक्षमुपादेयं कृत्वा सरागसम्यक्त्वकाले विषयकषायवंचनार्थं कर्तव्यः । तेन तत्त्वविचारेण मुख्यवृत्त्या पुण्यबंधो भवति परंपरया निर्वाणं च भवतीति नास्ति दोषः। किंतु तत्र तत्त्वविचारकाले वीतरागस्वसंवेदनज्ञानपरिणतः शुद्धात्मा साक्षादुपादेयः कर्तव्यः इति ज्ञातव्यं । ननु वीतरागस्वसंवेदनविचारकाले वीतरागविशेषणं किमिति क्रियते प्रचुरेण भवद्भिः, किं सरागमपि स्वसंवेदनज्ञानमस्तीति ? अत्रोत्तरं । विषयसुखानुभवानंदरूपं स्वसंवेदनज्ञानं सर्वजनप्रसिद्धं सरागमप्यस्ति । शुद्धात्मसुखानुभूतिरूपं स्वसंवेदनज्ञानव्याख्या लगा सो अज्ञानसे भैंसेको और अपनेको एकरूप करता अपने में वादलको स्पर्शकर भेदते सींगवाले महान् ( बडे ) भैंसापनेके अध्याससे मनुष्यके योग्य ओवरा कुटीके द्वारसे निकलनेसे च्युतहुआ उस प्रकारके भावका कर्ता प्रतिभासता है उसीतरह यह आत्मा भी अज्ञानसे ज्ञेयज्ञायक जो पर और आत्मा उनको एकरूप करता आत्मामें परद्रव्यके अध्यासके निश्चयसे मनके विषयरूप किये धर्म अधर्म आकाश काल पुद्गल अन्य जीव द्रव्य उनकर रुकी जो शुद्धचैतन्य धातु उसपनेकर तथा इंद्रियोंके विषयरूप किये जो रूपी पदार्थ उनकर ढका गया जो अपना केवल एक ज्ञान उसपनेकर तथा मृतक शरीरमें मूर्छित हुआ परम अमृतरूप विज्ञानघन आत्मा उसपनेकर उस प्रकारके भावका कर्ता प्रतिभासता है ॥ भावार्थ-यह आत्मा अज्ञानसे क्रोधादिकको तो भाव्यभावकसंबंधसे अपनेसे एकरूप मानता है और धर्मादिद्रव्य ज्ञेयरूप हैं उनको भी अपनेसे एककर मानता है । सो जैसा अपना भाव होता है उसी भावका कर्ता होता है ।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy