________________
14
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे.
[जडद्रव्य
तत्वमुक्ताकलापः रोधम् तस्मान्निधूतसर्वप्रतिमतविमति साधये सर्वमर्थम् ॥४॥ ___ आवापोद्वापतस्स्युः कतिकति कविधीचित्रवतत्तदर्थेष्वानन्त्यात
___ सर्वार्थसिद्धिः अत एव कुमतिभिरर्थ्यन्त इत्यर्थाः न तु परमार्थाः। प्रतिमतैविमतिर्विवादः तत्प्रसूता वा विरुद्धबुद्धिः । सर्वमर्थ-मुमुक्षुभितिव्यं परम्परयेत्यर्थः ॥४॥
तथापि निधूतसर्वप्रतिमतविमतिं सर्वमर्थ साधय इत्यशक्योक्तिः त्रैकालिकसिद्धान्तभेदानन्त्यात् , इत्याशङ्कोद्घाटनपूर्वकं प्रयोजकशिक्षया कृत्स्नानिष्टनिरासः कृत्स्नाभीष्टसाधनं च शक्यमिति स्थापयति-आवापेति । एकस्मिन्नेव हि दर्शने व्याख्यातृभेदात्केषां चित्प्रमेयानां आवापोद्वापौ दृश्यते यत एकदशिव्यपदेशः । कविधीचित्रवत् कवीनां धीभिः कृतं काव्यादिकं कविधीचित्रम् । तद्वन्मतभेदा अप्यनन्तास्संभवन्ति । तत्त
आनन्ददायिनी वादाभिव्यक्तिवादक्षणिकत्ववादादयोऽभिमताः । तत्वबोधोपरोधकत्वमर्थानां न युक्तं इत्यत्राह प्रतिमतैरिति ॥ ४ ॥
ननु तत्वनिरूपणं प्रस्तुत्य विशेषदर्शनस्य संशयादिनिवर्तकत्वबाधस्य तत्तत्कल्पनाधीनभ्रमनिवर्तकत्वोक्तिरनवसरग्रस्तेत्यत्राह-तथापीति । ननु अस्तिनास्तीत्यस्तिनास्तिशब्दावुच्यते । तयोर्द्वरूप्येणान