________________
626
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः न तृतीयः; क्वचित्सिद्धस्यैवान्यत्र कल्प्यत्वात् ; तथा च तत्सिध्येत् । रूपादिषु दृष्टं वर्तमानत्वं काले कल्प्यतामिति चेन्न; क्षणिकरूपादिसंततावपि पूर्वापरातिरिक्तवर्तमानत्वस्य त्वया दुर्वचत्वात् । अन्यथा कालेऽपि तदुपपत्तेः । कालमनिच्छतश्च ते काले कथं कल्पना ? निरधिष्ठानासौ कल्पनेति चेन्न; ईदृशकल्पनाभ्युपगमे मध्यमा(माध्यामिकागमप्रवेशप्रसङ्गात् । स्थिरवादे तु रूपादिष्विव केनचिद्रूपेण कालेऽपि वर्तमानत्वं सिद्धम् ।
आनन्ददायिनी विषयेति । स्वविषयधीरात्मा ; आत्मातिरिक्तधीमात्रस्य निर्विषयत्वानभ्युपगमात् ; अन्यथा विश्वमात्रस्य निवप्रसङ्गादिति भावः । केचित्तुसविषयकत्वाद्धियां त्वदनभ्युपगमाचेति पाठान्तरम् ; तदा सविषयत्वनियमात् त्वन्मतविरोधाचेत्यर्थ इत्याहुः । कचिदिति --- अन्यत्रसिद्धरजतादेश्शुक्तावारोपदर्शनादित्यर्थः । तथाचेति-वर्तमानकालस्सिद्धयेदित्यर्थः । ननु वर्तमानत्वं न कालस्वरूपं किं तु रूपादिवत् कश्चिद्धर्मः । स काले आरोप्यताम् ! तावता न वर्तमानकालसिद्धिरिति शङ्कते --रूपादिष्विति । क्षणिकेति-केषां चित् क्षणानां पूर्वत्वात् केषाञ्चिद्रपादिक्षणानां परत्वात् न रूपादावपि वर्तमानता संभवतीत्यर्थः । अन्यथेति-रूपादिक्षणा(ण)विशेषादित्यर्थः । कालमनिच्छत इति-रूपादिक्षणातिरेकेण तैः कालक्षणानभ्युपगमादित्यर्थः । मध्यमागमेति–माध्यमिकमतप्रवेशप्रसङ्ग इत्यर्थः । ननु सर्वत्र वर्तमानत्वं मा. भन्नाम! तथा कालस्यापि क्षणिकत्वात् पूर्वापरकालव्यतिरिक्तः कालो न स्यादित्यत्राह-स्थिरवादे इति। सर्वस्यापि स्थिरत्वस्य साधितत्वेन